________________
२८ अयमपि तथोपदिष्टो भवति यथाऽन्ते"खण्डिकैः सह शिवोचितमार्गे सोऽग्मिभूतिरपि दीक्षित आसीत् ॥"
एवमनयोर्धात्रोर्लघुबन्धुर्वायुभूतिरपि देह-जीवयोमेंदं रोचकयुक्तिभिरुपदिष्टः । यथा हि" यत्सुरागसमवायसमुत्था
क्षीबता न परतोऽञ्चति किञ्चित् ॥ चेतना क्षिति-जला-ऽनलवायु
व्यूहजेयमिति चेतसि वेत्सि ॥ ३४" (पृ० १९८) इति शङ्कायाम्,“या च शक्तिरसती प्रतिवस्तु सा कुतः समुदये समुदेति । चेदिदं न, सिकतासमवाये किं न तैलजननं जगतीष्टम् ॥३६॥
(पृ० १९९) इत्युत्तरमाह । अर्थात् योकस्मिन् वस्तुनि असती अपि चेतना वस्तुसमुदये खतः समुदेति तर्हि सिकताया एकैककणे असदपि तैलं सिकतासमुदये कुतो नोत्पद्येत ? अतो देहे भूतसमुदयजा चेतना नास्तीत्याशयः ।
एतदनन्तरं व्यक्ताचार्य-सुधर्मोपाध्यायमण्डितखामि-मौर्यपुत्र-अकम्पितोपाध्याय-अचलमातृ-मैतार्यादयो विभिन्नसंप्रदाये लब्धप्रतिष्ठाः सुमहान्तो विद्वांसोऽपि तथोपदिष्टा यथा ते भक्तिपूर्वकं जैनागमदीक्षां जगृहुः, ये भगवदनुग्रहेण गणनाथाः सन्तश्चतुर्विधसङ्घ प्रतिबोधयन्तो मुक्तिपदं प्रापयामासुः । एतेषामुपदेशप्रसङ्गेन देवानामस्तित्वं, नारकादिसत्ता, धर्माऽधर्मव्यवस्थादिकं च तथा स्फीताभि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org