________________
चाज्ञानम् । अत एव विज्ञानमय आत्मा स्पष्टं सिद्ध्यत्येवेत्याशयः । एवमेव
" अहंप्रत्यय एकोऽपि क्रियां त्रैकालिकी स्पृशन् । प्रत्यक्षो दृश्यते, जीवं विनाऽहंप्रत्ययः कुतः ॥ ४३ शरीर एव चेदेष प्रत्ययो गृह्यते तदा । तदवस्थे शरीरेऽपि मृतस्य न भवेत्कथम् ॥ ४४"
(पृ० १५७) इत्यादिभिरन्याभिरपि युक्तिभिः आत्मपदार्थस्य साधनं बोधयति भगवान् श्रीमहावीरः । किं बहुना, ये ये विषया वेदादितोऽपि गौतमस्य हृदये सम्यग्रुपेण प्रमाणिता नासन् तेऽपि सर्वे गहनविषया श्रीवीरेण भगवता तथा बोधिता यथा न केवलं गौतमश्चकित एव, अपि तु, - " इत्थं संशयघातकानि वचनान्यापीय वीरप्रभोः
सर्वज्ञत्वमिहाधिगत्य जगतामीशत्वमालोक्य च । बाणैश्छात्रशतैरसौ परिवृतो मिथ्यात्वमोहोज्झितश्चारित्रं प्रविवेश सर्वविरतिं तीर्थाग्रणी!तमः ॥ ८१"
(पृ० १७९) एवमेव गौतमस्य (इन्द्रभूतेः) भ्रातुः अग्निभूतेरपि मनोगतं संशयादिकं ज्ञात्वा तं तथोपदिशति यथा सोऽपि एतत्प्रभावाच्छन्नो भवति । अस्मिन् प्रकरणे कर्मण एव सर्वतः प्रभुत्वं समर्थितम् । तदपि तथा युक्तिभिर्यथा ताः समधिगम्या भवेयुः"साधनेष्विह समेषु विशेषो यः फलेऽस्ति स च कारणयोगात् । गौरबन्धुषु समेषु य एकः श्यामलः स विषमाशनहेतोः ॥ १५"
(पृ० १८७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org