________________
२६
शब्दरूपं वेदाख्यं प्रमाणमपि यद् गौतमस्य हृदये जागर्ति स्म तदपि भगवता निरस्यते । यथा -
" परस्पर विरोधिन्यागमानामपि भारती । बृहस्पतिर्हि भूतातिरिक्तं जीवं न मन्यते ॥ २६” ( पृ० १४८ )
एवं किल आत्मनः साधनाय ये ये उपायाः प्रसिद्धा आसंस्ते सर्वेऽपि निरस्ता तत्रभवता वीरभगवता । समाधानाय अप्रभवन् महाविद्वानपि गौतमश्चित्रीयते स्म -
" श्रुत्वेति भगवद्वाक्यं गौतमोऽन्तश्चमत्कृतः ।
अहो ! सर्वज्ञ एषोऽस्तु दध्याविति विशुद्धधीः ॥ ३६" ( पृ० १५३ ) एवं प्रमाणबले गर्वितस्यापि गौतमस्य सर्वमपि ज्ञानबलं निरस्य स्वयुक्तिभिरात्मपदार्थस्य साधनं शिक्षयति श्रीवीरो भगवान् - "सुखदुःखे वसंवेद्ये प्रत्यक्षे भवतो यदि ।
----
गौतम ! संदेहविज्ञानं किं तथा न हि ॥ ४१ विज्ञानमय एवं हि प्रत्यक्षो जीव इष्यते । प्रमाणान्तरसाध्यत्वमसत्यस्मिन् विचार्यते ॥ ४२ " ( पृ० १५५ )
अर्थात् तव सुखदुःखे खेनैव संवेद्ये, ततश्च प्रत्यक्षज्ञानविषये । एवं तव हृदये संशयोऽपि जागर्त्येव, यतो हि संशयवशादेव त्वं व्यामुह्यसि । एवं च सुखदुःखानुभवस्य खीकारे, संशयज्ञानस्य चाङ्गीकारे सिद्ध एवात्मा । यतो ह्यात्मानं विना नानुभवः, न
Jain Education International For Private & Personal Use Only www.jainelibrary.org