________________
शक्यत इति निरस्ता भवन्ति । एवंविधगहनस्याप्यात्मविषयस्य काव्येऽसिंस्तथा वर्णनम् , आत्मनस्तथा सिद्धिः कृता दरीदृश्यते यथा काव्यबोधशक्तिशाली जनो निःसंशयं तत्तत्त्वबोधने क्षमेत । वीरेण भगवता गौतमस्य हृदयगतः संशयः खमहिना परिज्ञातः । आसीद गौतमस्य हृदये वेदवाक्यतत्त्वानवबोधात् संदेहः । तस्य हि खशास्त्रानुसारमात्मनः साधनं निःसन्देहतया हृदि स्थिरीभवति स्म । यतो हि आत्मज्ञाने न प्रत्यक्षं प्रमाणं भवितुमर्हति । प्राह कविः
"प्रत्यक्षेण प्रमाणेन ग्रहीतुं नैव शक्यते ।
इन्द्रियग्राह्यताभावात्तस्मान्नास्ति खपुष्पवत् ।। १८" एवमनुमानमपि तत्र न प्रमाणं प्रभवति । यथा
"कृशानो॰मवल्लिङ्गं किमप्यस्य न लभ्यते । - यत्संबन्धेन जीवोऽयमदृष्टोऽप्यनुमीयते ॥ १९"
अनुमानं हि लिङ्गेन ( हेतुना) लिङ्गिनः (साध्यस्य) संबन्धे सति (यथा धूमस्य वह्निना सह कार्यकारणभावसंबन्धे सति) सिध्यति । तथा आत्मनः किञ्चिल्लिङ्गं न दृश्यते येनाऽनुमानं भवेत् ।
ननु चेतना आत्मनो लिङ्गम् । न हि आत्मानं विना चैतन्यमवतिष्ठते । अत एव चैतन्येन लिङ्गेन आत्मनोऽनुमानं स्यादिति पूर्वपक्षमपि निरस्यति कविः
"अस्तु वा चेतना लिङ्गं संबन्धस्त्वनयाऽस्य च ।
प्रत्यक्षो नेक्षितः कापि प्राक्, ततः कानुमेयता ? ॥ २०" - एवंप्रकारेण --- अनुमानमुपमानं शब्दादिकं सर्वमपि प्रमाणजातमात्मनः साक्षात्कारार्थ निस्स्यति श्रीमहावीरो भगवान् । किं बहुना,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org