________________
२४
किष्टोsपि विषयो नीरसोऽपि च वयों लोकानां हृदयावर्जनक्षमो भवति । कस्यचन संप्रदायस्य प्रमेयवर्णनं सिद्धान्तपरिस्थापनं वा न किल मनोरञ्जककथेव लोकानां हृदयहरणे प्रभवेदिति जानन्ति सर्वेऽपि । किंतु श्रीमतो रूपचन्द्रगणेः कवितानैपुण्येन शुष्कापि सेयं सिद्धान्तवर्णनाऽऽरभटी तथा संवृत्ता यथा मनोयोगेन वाचयितुरन्तःकरणमवश्यं तदनुगामि भवति । अयमेव कवेः कवितायाश्च प्रभावो नाम । एतेनैव हि काव्यस्य साफल्यं परीक्षितं भवति । प्रमेयानामुपदेशायैव हि काव्यानामुत्पत्तिः । यत उक्तम् - "काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे” इति । ततश्च श्रोतारो मनोरञ्जनपूर्वकं वक्तव्यविषयानुगामिनश्चेत् संपद्यन्ते तर्हि सुस्पष्टमिदं सफलं काव्यं नाम ।
- काव्यस्य वर्णना शैली -
ऋतु - उपवनादिवर्णने तु कवेर्मधुरा रचनाऽस्त्येव परं सिद्धान्ततत्त्वबोधनेऽपि सैव कवेः शैली एकान्तभावेन प्रचलतीति महदेव गौरवं कवयितुः । दृश्यताम् – गौतमस्य ( इन्द्रभूतेः ) संशयनिवारणपूर्वकं चारित्रप्रवेशाय यदिदं भगवतः प्रकथनमुपनिबद्धं तस्य प्रारम्भे,
" यदहं संशयच्छेदी सर्वज्ञं मां प्रतीहि तत् । " इत्यारभ्य ( पृ० १४०, श्लो० १४ ) सप्तम सर्गस्यान्तपर्यन्तमतिगहन विषयो वर्णितोऽस्ति । अत्र हि आत्मपदस्य साधनं कृतम् । पाश्चात्त्या वैज्ञानिका आत्मपदार्थं नाऽधुनापि मन्यन्ते । बहवः किञ्चित् किञ्चिन्मत्वापि न मन्यन्त एव । बहवस्तु – बुद्ध्या न बोद्धुं
-
Jain Education International For Private & Personal Use Only www.jainelibrary.org