________________
२३
मञ्जरीप्रभृतीन्यपि काव्यमालायां प्रकाशितानि जैनपण्डितानां सारखतवैभवसूचकानि । एभिः काव्यर्लोकानुरञ्जनपूर्वकं धर्मश्रद्धानप्रचारस्य जैनसिद्धान्तप्रकाशनस्य च कार्य किमार्यावर्ते न कृतम् ! प्रत्यक्ष प्रमाणमिदमेव- यत् काव्यमाला विना जैनकाव्यैरपूर्णवाभविष्यत् । अद्यापि च तत्तेषां काव्यानां प्रशंसका अन्यान्यधर्मनिष्ठा अपि काव्यमालावाचका विद्वांसो बहुशः श्रूयन्ते । इदमेव हि काव्यनिर्माणस्य मन्ये साफल्यं नाम ।
-श्री गौ त मी य काव्यम् - प्रकृतमिदं काव्यमनेनैवोद्देश्येन जैनसारखतभाण्डागारे रत्नमिव चमत्कुरुते । जैनसंप्रदायं प्रति प्रमेयानुन्मुखीकर्तुम् , अहिंसा-दयाव्रतानुगामिनां श्रद्धानं दृढीकर्तुमेव च कविगगनचन्द्रेण श्रीमता पाठकेन रूपचन्द्रेण तदिदं काव्यमुपनिबद्धम् । नामतस्तदिदं काव्यम् , किंतु जैनसंप्रदायरहस्यबोधने प्रमाणग्रन्था वादग्रन्था वा यावन्न प्रभवन्ति ततोऽप्यधिकमिदं तनुशरीरं महाकाव्यं सिद्धान्तबोधने सम्यक् प्रभवति । अत एवैतदर्थकृते अमोघं साधनम् , वाचकलोकानामभिमुखीकरणाय सफलमुपकरणम्, आर्हतमतप्रचारणाय च सर्वतः प्रभावशालि शस्त्रं नाम ।
एतस्मिन् हि श्रोतृणां मनोरञ्जनाय पूर्वमुपवनशोभावर्णनम्, षड्ऋतुवर्णनम्, समवसरणसुषमावर्णनम्, एतदादिका विषयाः प्रगुम्फिताः कविना । तदनन्तरं तु साक्षादुद्देश्यमेव (अर्थात् जैनसिद्धान्तवर्णनम् ) उपक्रान्तं भवति । काव्यगगनरवेः श्रीरूपचन्द्रकवेः कवितानिगुम्फनपाटवं तथा विद्यते येन हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org