________________
२२
चिदपि संप्रदायस्य साहित्यान्न्यूनतां स्पृशति, जैनविद्वद्भिरनेकानि गद्य-पद्यकव्यानि प्रकटितान्यद्यावधि येषां हि प्रभावच्छन्ना न केवलं जैनधर्मानुयायिन एव, अपि तु अन्यान्यधर्मग्राहिला अपि काव्यमाधुर्यमुग्धास्तेषु सप्रशंसं प्रवर्तमाना दृश्यन्ते । प्रत्यक्षं प्रमाणमिदमेव यत् शैव-वैष्णवधर्माग्रहिभिरपि विद्वद्धिरात्मपुस्तकमालासु जैनकाव्यानि परमादरेण संगृहीतानि, यद्यपि जैनपुस्तकमालासु शैवादीनां काव्यानि न कदाचित्स्पृष्टानि । मुंबय्यां निर्णयसागरयन्त्रालयेन बहोः कालात्पूर्वं या 'काव्यमाला' नाम्नी ग्रन्थमाला (Series) प्रकाशिता यस्या हि प्रारंभको महामहोपाध्यायः पं. श्रीदुर्गाप्रसाद - शर्माऽभूत् । एतस्याश्च पुस्तकमालायाः संस्कृतसाहित्योपरि अनपाकरणीयमृणम् । यतो हि काव्यमालायां तत्तादृशानि पुस्तकानि प्रकाशितानि यैर्विना संस्कृतसाहित्यमन्दिरस्य भूयानंशः शून्य एवासीत् । काव्यमालाप्रकाशनात् पूर्वं प्रायः पञ्च महाकाव्यान्येव विद्वांसो जानन्ति स्म । किन्त्वनया पुस्तकमालया अलङ्कार - नाट्य-नाटककाव्यादीनां ते ते ग्रन्थाः प्रकाशिता यान् दृष्ट्वा समग्रं साहित्यजगत् चमत्कृतमभूत्, यैश्च संस्कृतसाहित्यमिदं वास्तव एव शोभाशालि संवृत्तम् ।
एतस्याः काव्यमालाया भूयानंशो जैनविदुषां लेखनीप्रसूतः । श्रीतीर्थङ्करचरितानि चन्द्रप्रभचरित - नेमिदूत - नेमिनिर्वाणादिकान्यनेकानि यथा प्रकटितानि तथा धर्मशर्माभ्युदयादीन्यपि प्रकाशं नीतानि । साक्षात्स्तोत्रग्रन्थानां श्रीभक्तामर स्तोत्रादीनां तु मालैव पृथगेका प्रकाशिता येषां कृते तस्या एको 'गुच्छकः' एव पृथङ् निगुम्फनीयोऽभवत् । एवमेव गद्यकाव्यानि यशस्तिलकचम्पू - तिलक
Jain Education International For Private & Personal Use Only www.jainelibrary.org