________________
नियमग्रन्थाः पुराणानि सूत्रग्रन्थसङ्घातो न्याय-व्याकरणादिप्रमाणग्रन्थाश्च परिगृह्यन्ते तथा काव्यान्यप्यत्रैवान्तर्भवन्ति । मर्मविचारे तु-प्रधानं स्थानमधिकुर्वन्ति । लोकानुरञ्जको रमणीयोऽर्थः, तदनुकूलाः कर्णसुखदाः शब्दाश्चेत्येतत्सङ्घातात्मकं हि काव्यं प्रख्यायते । काव्यं हि खमाधुर्येण विद्रोहिणमपि जनमात्मवशे करोति । खिन्नमपि हृदयं प्रसादयति, प्रतिकूलमप्यनुकूलमापादयति । धर्मस्य तत्सिद्धान्तानां च प्रचारे कठिनकठिनाः प्रमाणग्रन्था वादग्रन्थाश्च कदाचिन्न प्रभवन्ति । तेषां हि शक्तिस्तद्रहणसामर्थ्यशालिषु विद्वरखेव परिजृम्भते । विद्वांसश्च खखमते दृढाग्रहशालिनो भवन्ति ।
अत एव तेषां पुरतः खधर्मविवादस्योपस्थापनेन न तावत् फलमीक्ष्यते ।
ये तु सामान्यबोधशालिनो भवन्ति, येषां च हृदयं जिज्ञासापरवशं भवति, ज्ञानपिपासा च येषां हृदये जागर्ति, कस्मिन्नपि विषये येषां संशयो युदेति, कमपि विषयं ज्ञातुं कौतुकं वा येषां भवति ते हि मार्मिकरूपेण बोधिताः खल्पायासेनैव वक्तव्यविषयं गृह्णन्ति । यदि च वक्तव्यविषयः सत्यः प्रभावशाली च भवति तर्हि सर्वदाऽथ ते तदनुयायिनोऽपि भवन्ति । एवंविधानामधिकारिणां बोधाय 'काव्यम्' एव सर्वतो लब्धसाफल्यम् । क्लिष्टम् अमनोनीतमपि गुडजिव्हिकारूपेण ग्रहीतुमेव काव्यस्य जन्म । काव्यं हि श्रोतुर्हृदयम् अनुरञ्जनपूर्वकं खवशे कृत्वा ततस्तदनन्तरं खोपदेशं तस्मिन् संचारयति । एतदेव प्रमेयानामभिमुखीकरणं नाम । अस्तु नाम नायं विषयो विस्तरमर्हति ।
जैनसंप्रदायस्य साहित्यांशः, तत्रापि च काव्यविभागो न कस्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org