________________
अपि तु भारतदूरवर्तिदेशेष्वपि कदाचित्खैरं प्राचरत् । देश-कालशासकादिमहिना सांप्रतं यद्यपि विपरीता परिस्थितिस्तथापि भारतेऽस्मिन् अन्यान्यधर्मापेक्षया जैनधर्मस्य कियान् प्रसारः, कियद् गौरवम् , तदनुयायिषु च कियत् श्रद्धानमिति न वर्णनविस्तरमर्हति । स्थूलरूपेणैव गृह्यताम् -- यद् व्यावहारिककार्यक्षेत्रेष्वेव जैनधर्मानुयायिनां कियान् भागः कीदृशश्च प्रभावो नाम ।
अस्तु, कारणमेतस्य प्रभावशालिनः साहित्यस्य प्रचारणमेव सर्वोपरिगम् । यस्य हि धर्मस्य सिद्धान्तो निर्दुष्टो वरीवर्ति, साहित्य सुदृढ प्रभावसंपन्नं च भवति, स एव धर्मः प्रसरति, लोकेषु श्रद्धानं च लभते, चिरकालं च लोकालये विहरति । जैनसाहित्ये त इमे गुणाः सुस्पष्टं प्रमाणिता भवन्ति । एतदर्थ न प्रमाणान्वेषणस्य परिश्रमः सोढव्यो भवेत् । प्रत्यक्षमिदमेव प्रमाणमस्ति यदसङ्ख्येषु वर्षेषु व्यतीतेषु, तत्प्रचारकेषु शासकेषु नष्टेषु, प्रत्युत विपरीतधर्मानुयायिषु शासकेषु वर्तमानेषु, किं देशे किं काले पात्रे सर्वत्रैव विपरीतपरिस्थितावुपस्थितायामपि सांप्रतं जैनधर्मः खैरं विहरति, मोदते अन्यान्यधर्मापेक्षया बहुलं बलशाली च । किं नास्य कारणमिदम्, यदेतस्य साहित्यं प्रचुरं प्रभावशालीति? शासनसत्तायां लुप्तायामपि यत्कस्यचिन्मतस्य परितः प्रचारो दृश्यते तत्र तदीयं साहित्यमेव कारणभूतम् । साहित्यं हि व्यतीतेष्वप्यनन्तवर्षेषु अक्षुण्णबलमिव सर्वतः स्वप्रभावं प्रसारयति ।
-जैन काव्यानिसाहित्यपदेन 'लिटरेचर' (Literature) पदवाच्यं तदीयं वाङ्मयम् (लेखसङ्घातः, ग्रन्थसमूहो वा) गृह्यते । साहित्ये च यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org