________________
स्तैरात्मभाषायाम् । किं नेदं भारतीयसाहित्यादपरसाहित्यस्य संस्करणं नाम ? अपि च--- समुद्रपरपारवर्तिषु देशेषु अस्मत्साहित्योपजीवनेऽपि किं भारतीय साहित्यं विश्वसाहित्यमिति नास्मामिर्वक्तुं शक्येत ?
-जैन संप्रदायः, तत्सा हि त्यं च - कारणमस्येदमेव- यदत्र साहित्यप्रचारका महापुरुषास्तथा प्रभावशालिनः समभूवन् येषामनुभावात् साहित्यमेव किम् , समग्रो देश एव सर्वतः प्रभावाक्रान्तः समभवत् । सकलजगति श्रेयःप्रचाराय परितो घोषितडिण्डिमो हि जैनसंप्रदाय एव गृह्यताम् । अत्र हि तत्तादृशा महापुरुषाः प्रादुरासन् येषामुपदेशाश्चरितानि च जनताया हृदये मन्त्रस्येव प्रभावमुत्पादयामासुः । येन किल मनीषिणा पक्षपातमुत्सृज्य तेषामुपदेशः श्रद्धयाऽश्रद्धया वा परिगृहीतस्ते बलादिव तदनुगामिनो बभूवुः, श्रद्धानेन च तान् नियमान् खीचक्रुः । आर्यावर्तस्य कोणकोणे आहेतसंप्रदायस्य विजयदुन्दुभिः कस्सिंश्चन काले यत्समन्तान्मुखरितो बभूव तस्य किं नायं स्पष्टो हेतुर्यत्तस्य धर्मस्य साहित्ये तादृशी शक्तिरासीत् , यत् मार्मिकजनताया हृदये अक्षुण्णं प्रभावं प्रस्फुटमुत्पादयामास ? अवश्यं श्रोतुहृदयवशीकारे उपदेशकस्य आध्यात्मिकं बलम् , चारित्र्यसंपत् , सत्यं श्रद्धानं चेत्यादिकं कारणम् , किंतु एवंविधैर्महापुरुषैः प्रचारितं साहित्यमपि तादृशमेव प्रभावशालि भवति यस्य हि हृदयतो मनने कृते मननकर्तुरन्तःकरणे अवश्यं खलु श्रद्धानस्योदयो भवेत् । - जैनधर्मेण श्रद्धानानां शिवप्राप्तये ते ते ग्रन्थास्ते ते उपदेशास्तानि तानि साधनानि च संपादितानि येषां प्रभावो न केवलं भारते एव,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.c