________________
३०
प्रचारयत्येव काव्यनिर्माणस्य मुख्य मुद्देश्यम् । तदिदमुद्देश्यं सुस्फुटमेव पूरितम्, यतो हि जैनागमस्य तात्त्विकमुपदेशं श्रुत्वा वैदिका - दिमार्गेषु सुदृढाः, सर्वतः प्रसिद्धपाण्डित्या अपि महाविद्वांसोऽत्र श्रद्धाशालिनः संपद्यन्ते । एवंविध एव प्रभावस्तीर्थङ्करमहिम्ना प्रचारितः, अयमेवातिशयो महावीरादिवाणीनामिति सुदृढमुपदेशः काव्येनानेन वाचयतां हृदये दृढीक्रियते । अनेनोपदेशेनाभिमुखीभूतेषु प्रमेयेषु किं न साफल्यं महाकाव्यस्याऽस्य ?
तदिदम् पाठक श्रीक्षमाकल्याणगणिकृत 'गौतमीयप्रकाशाख्य'व्याख्यासहितं श्रावकानां ज्ञानदृढीकरणाय संप्रति महता परिश्रमेण प्रकाश्यते । टीकेयमतिविशदा, अतिसरलपद्धत्या सान्वयं व्याख्यान - 1 मुपस्थापयति । लोकप्रसिद्धस्य पाणिनीयव्याकरणस्यानुसारेण च सर्वत्र शब्दसाधुत्वं बोधयति । सांप्रदायिकमावश्यकं तत्त्वमपि स्थाने स्थाने सेयं सुरुचिरया सरण्योपदिशति । स्थले स्थले श्रीहेमचन्द्रसूरीणां विशेषावश्यकवृत्त्यादीनां चोद्धरणान्यपि टीकायामस्यां दत्तानि ।
काव्यमिदं कस्मिन् स्थाने कदा निर्मितम्, कश्चायं कविरवी रूपचन्द्रकविरित्यादिकं विवरणं नाहमत्रोल्लिखामि । ग्रन्थे एव “संवच्छैल-वियद्गजोमुप( १८०७ ) मिते मासे सहस्याऽऽदिमे पक्षे दक्षताधिनाथदिवसे शुद्धे तृतीयातिथौ । श्रीमद्येोधपुरे कमध्वजरवौ श्रीरामसिंहे नृपे
श्रीमच्छ्री जिनलाभ सूरिगणभृद्राज्ये पुनर्द्धार्मिके ॥ १ विद्याचारवरे गणे खरतरे श्रीक्षेमकीऽन्वये
सञ्जाता भुवि शान्तिहर्षगणयः श्रीवाचकाख्याभृतः ।
Jain Education International For Private & Personal Use Only www.jainelibrary.org