________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १७५ दापि कस्मिन्नपि काले न प्रतीताः स्युन प्रतीतियुक्ता भवन्ति । अयमर्थः-ये खलु सर्वं शून्यमेवास्तीति वदन्ति तेषां वाचोऽपि सर्ववस्त्वन्तर्गतत्वात् शून्या एव, ततश्चार्थशून्ये तद्वचने को विद्वान्प्र-३ तीतिं कुर्वीतेति ॥ ७३ ।।
वेदान्तिमतमाश्रित्य ब्रह्मैक्यं यद्यपि स्थितम् । . तथापि लिङ्गभेदेनाऽऽत्मभेदमवधारय ॥ ७४॥ ६
वेदान्तिनां मतं वेदान्तिमतं, तदाश्रित्य यद्यपि ब्रह्मण आत्मन ऐक्यमेकत्वं स्थितम् , तथाऽपि हे गौतम ! लिङ्गस्य चिह्नस्य भेदेन आत्मनो जीवस्य भेदं नानात्वमवधारय जानीहि । वेदान्तिमतं ताव-९ दिदम्-"एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिर्भिन्नाभिरभिमन्यते ॥ तथेदममलं १२ ब्रह्म निर्विकल्पमविद्ययया । कलुषत्वमिवापन्नं भेदरूपं प्रकाशते ॥॥ इत्यादि ॥ ७४ ॥
ननु कथं लिङ्गभेदेनात्मभेद इत्याशङ्याहउपयोगो हि लिङ्गं स्यात्तस्योत्कर्षाऽपकर्षतः। भेदास्त्वनन्ता जीवानां भिन्नता तेन गृह्यताम् ॥ ७५ ॥
हीति निश्चयेन उपयोगो ज्ञानदर्शनोपयोगः, स च जीवस्य १८ लिङ्गं स्याद् विद्यते । तस्योपयोगस्य तु उत्कर्षापकर्षतः प्रतिशरीरमाधिक्यन्यूनभावात् जीवानां अनन्ता भेदाः सिद्धाः, तेन कारणेन हे गौतम ! त्वया जीवानां भिन्नताऽनेकविधत्वं गृह्यतां खीक्रियतां, न तु वेदान्तिवदेकत्वमिति भावः । एषां भिन्नत्वं तु संसारीतर(सिद्ध)-२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org