________________
१७४
श्रीगौतमीयकाव्यं क्षणनश्वरताबुद्धिबौद्धानां या श्रुते श्रुता ।
ज्ञानपर्यायमाश्रित्य साऽस्तु द्रव्यानपेक्षणात् ॥ ७१॥ ३ बौद्धानां सौगतानां श्रुते शास्त्रे या क्षणनश्वरताबुद्धिः सर्वमपि वस्तु जातं क्षणविनश्वरमस्तीत्यवभूता मतिः श्रुता प्रसिद्धाऽस्ति, सा बुद्धिद्रव्यानपेक्षणात् द्रव्याऽपेक्षामविधाय, किंतु ज्ञानपर्यायमाश्रित्य ६ स्वीकृत्य अस्तु भवतु । एतावता पर्यायनयाऽपेक्षया क्षणनश्वरत्वं सर्वपदार्थानामस्तीत्यर्थः । द्रव्येत्यादि । 'ल्यबलोपे-' (वा०) इति पञ्चमी ॥ ७१ ॥ ९ अथ नास्तिकादिमतं निराकुर्वन्नाह-- अनुमानात् खसाध्यं यः साधयन्नपि तं पुनः।
खण्डयनिह चार्वाकः सतां ग्राह्यवचाः स किम् १ ॥ ७२ ॥ १२ इहाऽस्मिन् लोके स चार्वाको नास्तिकः, किं सतां सत्पुरुषाणां
ग्राह्यमुपादेयं वचो वचनं यस्य स ग्राह्यवचो भवति ? न भवत्येवेत्यर्थः। स क इत्याह-अन्वित्यादि । यश्चार्वाकः खस्यात्मनः १५ साध्यं नास्तित्वमनुमानादनुमानप्रमाणेन साधयन्नपि तं पुनरनुमानादि
साध्यं जीवं खण्डयन् निराकुर्वन् वर्तते । एतावता यो येन प्रमाणेन
खसाध्यं साधयति तेनैव सिद्ध पदार्थान्तरं न स्वीकुरुते । तस्याऽय. १८ थार्थभाषिणो वचनं कस्य सत्पुरुषस्योपादेयं भवेदिति भावः ॥७२॥
शून्यतैव परं तत्त्वं येषां स्याच्छ्रन्यवादिनाम् । तेषां वाचोऽर्थशून्यत्वात् प्रतीताः स्युः कदापि न ॥ ७३ ॥
तथा तेषां शून्यवादिनां बौद्धैकदेशिनां शून्यता एव परं प्रधान २२ तत्त्वं स्यात् विद्यते, तेषां वाचो गिरोऽर्थशून्यत्वादभिधेयहीनत्वात्क
VVVVVV
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org