________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १७३ घनत्वं निबिडत्वं प्राप्तो विज्ञानघनो जीवः, यदि वा प्रतिप्रदेशमनन्ताऽनन्तविज्ञानपर्यायसङ्घातघटितत्वात् विज्ञानघनो जीवः। एवकारेण तु विज्ञानघन एवाऽसौ न तु नैयायिकादीनामिव 'खरूपेण निर्विज्ञान-३ त्वाजडोऽसौ बुद्धिस्तु तत्र समवेतैवेति नियम्यते । स हि भूतेभ्य उत्पद्यते, भूतानि इह घट-पटादिज्ञेयवस्तुखरूपाणि अभिप्रेतानि, तेभ्यो ज्ञेयभावेन परिणतेभ्यो 'घटोऽयं पटोऽयम् इत्यादिज्ञानपर्याये-६ णोत्पद्यते इत्यर्थः । ततस्तान्येव ज्ञानालम्बनभूतानि कालक्रमेण व्यवधानस्थानाऽन्यमनस्कत्वादिनाऽर्थान्तरोपयोगे सति विज्ञेयभावेन विना समभुवानानि, अनु पश्चात् तत्तद्बोधपर्यायेण स विनश्यति । 'ननु ९ किमित्थं सर्वथाऽयमात्मा विनश्यतीति चेत्', नैवम् , एक एवाऽयमात्मा त्रिखभावः, तथा हि-अर्थान्तरोपयोगकाले पूर्व विज्ञानोपयोगेनायं विनश्वरस्वभावः, अपरविज्ञानोपयोगतस्तु उत्पादखभावः, १२ अनादिकालप्रवृत्तसामान्यविज्ञानमात्रसन्तत्या पुनरयं विज्ञानधनो जीवोऽविनष्ट एवाऽवतिष्ठते । एवमन्यदपि सर्व वस्तु उत्पादव्ययध्रौव्यखभावमेव बोध्यम् । न च प्रेत्येति । न चाऽन्यवस्तूपयोगकाले प्राक्तनी १५ ज्ञानसंज्ञाऽस्ति । कुतः । साम्प्रतवस्तुविषयोपयोगात् । अयमर्थः---- यदा घटोपयोगनिवृत्तौ पटोपयोग उत्पद्यते, तदा घटोपयोगसंज्ञा
तदुपयोगस्य निवृत्तत्वाकिंतु पटोपयोगसंज्ञैवाऽस्ति । तदुपयो- १८ गस्यैव तदानीमुत्पन्नत्वात् , तस्माद्विज्ञानघनाख्यो वेदपदेष्वभिहितोऽयं जीवः । ततो गौतम ! प्रतिपद्यखैनमिति ॥ ७० ॥ , अथ यत्सत्तत्क्षणिकमिति व्याप्तिवादिनां बौद्धानामेकान्तवादित्वं दर्शयति
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org