________________
श्रीगौतमीयकाव्यं
ततः संज्ञाऽपि न प्रेत्याऽपरसंज्ञासमुद्भवात् ।। एवं हि देहिपर्यायोत्पत्तिनाशौ विवक्षितौ ॥ ६९॥. अशरीरं वसन्तं वेत्यादिवेदोक्तिभिः स्फुटम् । ध्रुवत्वं तस्य जीवस्य द्रव्यत्वेन प्रदर्शितम् ॥ ७० ॥
चतुर्भिः संबन्धः । . ६ अत्राऽस्मिन् ‘विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न च प्रेत्यसंज्ञा'स्तीति वाक्ये ज्ञानदर्शनयोरुपयोगो विज्ञानं स्मृतं कथितं, विशिष्टं ज्ञानं विज्ञानमिति तस्य विज्ञानस्य सङ्घातः ९ समूहो घन उच्यते, तेन कारणेन जीवो विज्ञानघन उच्यते ॥२७॥ अथ स विज्ञानघनो जीवद्रव्यस्य पर्याय, उत्पत्तिमत्त्वात् घटादिभ्यो
भूतेभ्यो यथायथं यथायोन्यं समुत्थाय उत्पद्य अनु पश्चात् अर्था१२न्तरेऽपि योगे सति नश्यति विनाशं प्राप्नोति ॥ ६८ ॥ ततस्तदनन्तरमपरसंज्ञासमुद्भवात् अपरोपयोगिसंज्ञायाः संभवतः प्रेत्य
संज्ञाऽपि नास्ति, प्राक्तनी ज्ञानसंज्ञाऽपि न विद्यते। हि इति निश्चये, १५ एवममुना प्रकारेण देहिनां जीवानां ये पर्याया ज्ञानोपयोगाद्यास्तेषामुत्पत्तिनाशौ उत्पादव्ययौ विवक्षितौ ॥ ६९ ॥ तथा 'अशरीरं
वसन्तं वा' इत्यादयो या वेदोक्तयो वेदवाक्यानि ताभिः स्फुटं प्रकटं १० तस्य जीवस्य द्रव्यत्वेन द्रव्यरूपतया ध्रुवत्वं नित्यत्वं प्रदर्शितमस्ति ।
वेदोक्तिर्यथा-'न ह वै सशरीरस्य प्रियाऽप्रिययोरपहतिरस्ति,
अशरीरं वा वसन्तं प्रियाऽप्रिये न स्पृशत' इति, यथा 'अग्निहोत्रं २१ जुहुयात् वर्गकामः' इत्यादि । एतदर्थस्तु प्रागेवोक्तोऽतः पुनर्नोच्यते
इति ॥ अथ श्लोकचतुष्टयस्य भावना विधीयते-इह विज्ञानघनो जीव २३ उच्यते, तथा हि-विज्ञानं ज्ञानदर्शनोपयोगः तेन सहाऽभिन्नत्वेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org