________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १७१ विशेषोपलिप्सोः 'किमयमात्मा, किंवा शरीरमात्रमिदम् ?' इति विमर्श रूपः संशयो जायते । अयं चात्मशरीरयोः सत्त्वे एवोपपद्यते, नैकतरस्याप्यभावे, अतोऽस्ति जीवः, अथैवं ब्रूषे-अरण्यादिषु स्थाणुपुरुष-३ संशये तत्र विवक्षितप्रदेशेऽनयोरेकतर एव भवति, न पुनरुभयमपि, तत्कथमुच्यते विद्यमान एव वस्तुनि संशयो भवति ? इति, तदयुक्तम्अभिप्रायाऽपरिज्ञानात् , न हि वयमेवं ब्रूमः तत्रैव प्रदेशे तदुभयमप्य-६ स्तीति किंतु यद्गतः सन्देहस्तद्वस्तु तत्रान्यत्र वा प्रदेशे ध्रुवमस्त्येव । अन्यथा षष्ठभूतविषयो संशयः स्यात् , तस्मात्संशयविषयत्वादस्त्येव जीवः इति स्थितम्" (विशेषा० बृह० पृ० ६७३) इत्यादि ॥६५॥९
इत्थमात्मानुमित्यापि साध्यतां गौतम ! त्वया ।
अथाऽविरुद्धवाक्यार्थ वेदस्यैवं विभावय ।। ६६ ॥ हे गौतम ! त्वया इत्थं प्रागुक्तप्रकारेण अनुमित्याऽपि अनुमान-१२ प्रमाणेनाऽपि आत्मा जीवः साध्यताम् । 'ननु प्रागुक्तविरुद्धवेदवाक्यार्थमनुस्मरतस्त्यजतोऽपि मम संशयो'ऽतिविराधिताऽहित इव पृष्ठं न मुञ्चति तरिकं करोमीत्यत आह-अथेत्यादि । अथानन्तरं वेदस्य १५ अविरुद्धो विरोधवर्जितो योऽसौ वाक्यार्थस्तमेवं वक्ष्यमाणप्रकारेण विभावय विचिन्तय । प्रागुक्तविरुद्धार्थे आग्रहं मा कार्षीरित्यर्थः॥६६॥ कथमित्याह
१८ विज्ञानमुपयोगोऽत्र ज्ञानदर्शनयोः स्मृतम् । तत्सङ्घातो घनस्तेन विज्ञानघन उच्यते ॥ ६७॥ उत्पत्तिमत्त्वाद्भूतेभ्यो घटादिभ्यो यथायथम् ।
स जीवद्रव्यपर्यायः समुत्थायाऽनुनश्यति ॥ ६८॥ २२ १ अतिकदर्थनां प्राप्तोऽरिः इव मां पुनः पुनः दुनोति इत्यर्थः। ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org