________________
१७०
श्रीगौतमीयकाव्यं
नास्तित्वेऽपि असद्भावेऽपि अन्यत्राऽन्यस्मिन् प्रदेशे तत् शृङ्गलक्षणं वस्तु सदेव विद्यमानमेवास्ति । एतावता शशके एव तत् शृङ्गं ३ नास्ति । अन्यत्र गवादावस्त्येवेति न कश्चियभिचारः ॥ ६४ ॥
एवं संशयसद्धावादात्माऽस्तीति प्रतीयते ।
वन्ध्यापुत्रस्य नास्तित्वे संशयोऽपि न कस्यचित् ॥६५॥ ६ एवममुना प्रकारेण संशयस्य सद्भावात आत्मा जीवोऽस्ति विद्यते इति प्रतीयते ज्ञायते तथा वन्ध्यापुत्रस्य नास्तित्वेऽसद्भावे संशयोऽपि
कस्यचिन्न भवति । एतेन सद्वस्तुन एव संशय इति सिद्धम् । उक्तं च ९श्रीविशेषावश्यकवृत्तौ-“हे गौतम ! अस्त्येव जीवः तव संशयतः, संशयसद्भावात् , यत्र यत्र संशयस्तत्र तदस्ति, यथा स्थाणुपुरुषो, संशयश्च
तव जीवे तस्मादस्त्येवाऽयम् । तथा हि-स्थाणुपुरुषयोरूर्ध्वत्वारोह१२ परिणाहाद्युभयसाधारणधर्मप्रत्यक्षतायां चलनशिरःकण्डूयनवयोनिल
यनवल्यारोहणाधुभयगतविशेषधर्माऽप्रत्यक्षतायां चोभयगतैतद्धर्मानुस्मरणे च सति एकतरविशेषनिश्चयं चिकीर्षोः किमिदमिति विमर्श १५ रूपः संशयः प्रादुरस्ति । एवंभूते च स्थाणुपुरुषादिगतसंशये तत् स्थाणु
पुरुषादिकं वस्तु अस्त्येव । अवस्तुनि संशयाऽयोगात् , एवमात्मशरीर
योरपि प्रागुपलब्धसामान्यविशेषधर्मस्य प्रमातुस्तयोः सामान्यधर्म१८ प्रत्यक्षतायां विशेषधर्माप्रत्यक्षत्वेऽपि च तद्विषयानुस्मृतौ सत्यामेकतर
१ तथा च चलन-शिरःकण्डूयनादयः पुरुषगतविशेषधर्माः, चलनं-गतिः, शिरःकण्डूयनं-हस्तेन हस्ताभ्यां वा शिरसः कण्डूयनम्-खर्जनमित्यर्थः, अपि च वयोनिलयन-वहयारोहणादयो धर्माः स्थाणुगतविशेषधर्माः, वयोनिलयनंस्थाणौ वयसां-पक्षिणां निलयनं आश्रयस्थानमित्यर्थः, वहयारोहणं-वल्लीनां आरोहणम् ऊर्ध्वगत्या गमन मित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org