________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १६९ गगनकुसुमं, सङ्घातादिरूपं च देहादिकं तस्माद्विद्यमानस्वामिकमिति । तथा पुनः शरीरस्य भोग्यत्वात् भोक्ता जीवोऽनुमीयते, तद्यथा देहादीनां भोक्ता, समस्तभोग्यत्वात् , यथा शाल्यादिभक्तवस्त्रादीनां नरः, ३ यस्य च भोक्ता नास्ति तद्भोग्यमपि न भवति यथा खरविषाणं, भोग्यं च शरीरादिकं ततो विद्यमानभोक्तकमिति ।। ६२ ।। _ अथ श्लोकत्रयेणापरमप्यात्मसाधकमनुमानमाह
विहाय वस्तुनोऽस्तित्वं न स्यात्संशयसम्भवः ।
सतोहि स्थाणुपुंसोः स्यादरण्ये संशयोद्भवः ॥ ६३ ॥ हे गौतम ! वस्तुनः पदार्थस्याऽस्तित्वं सद्भावं विहाय त्यक्त्वा ९ संशयसंभव संशयस्य उत्पत्तिर्न स्यात् , वस्तुसद्भावे एव संशयोत्पत्तिरिति भावः । तथा हि-हि यतो अरण्येऽटव्यां सतोर्विद्यमानयोः स्थाणुपुंसोः शङ्कपुरुषयोः संशयस्य उद्भवः प्रादुर्भावः स्यात् । विद्यमान-१२ स्थाणुपुरुषविषयक एव संशयोऽरण्ये जनानां समुत्पद्यते, नाविद्यमानवस्तुविषयक इति भावः । विहायेति । विनाऽर्थेऽव्ययमिदम् , नतु ल्यबन्तमेव कर्तृत्वासंभवात । तथा च श्रीहर्षप्रयोगः-'विहाय १५ भैमीमयदर्पयावायेति ॥ ६३ ॥
सन्दिग्धं यच्च तत्तत्रान्यत्र वाऽस्तीति निश्चयः।
शशीयशृङ्गनास्तित्वेऽप्यन्यत्राऽस्ति तदेव सत् ॥ ६४ ॥१८ यच्च वस्तु सन्दिग्धं संदेहविषयीभूतं विद्यते तद्वस्तु तस्मिन् प्रदेशे अन्यत्राऽन्यस्मिन्वा प्रदेशेऽस्ति विद्यते एवेति निश्चयो वर्तते। 'ननु यदि यत्र संशयस्तेनावश्यमेव भाव्यम्, ततः शशशृङ्गमस्तीति २१ प्राप्तं, तत्रापि कस्यचित्संशयसद्भावादि'त्यत आह-शशीयेत्यादि । शशस्य जन्तुविशेषस्येदं शशीयं शशसम्बन्धि यत् शृङ्गं विषाणं तस्य २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org