________________
१६८
.
श्रीगौतमीयकाव्यं
तथा भो गौतम! अक्षग्राममिन्द्रियसमूहमुपादानं प्रतीहि जानीहि, उपादीयते गृह्यते वस्तु अनेनेति उपादानं, वस्तुग्रहणसाधनमित्यर्थः । ३ किंवत् ? संदंशवत् , यथा सन्देशमुपादानं जानासि तथेत्यर्थः । अथ विषया उपादेयाः शब्द-रूपादयस्तेषां ग्रहणे खीकारे उपादाताऽयं
जीवोऽस्ति, उपादत्ते इति उपादाता वस्तुग्राहक इत्यर्थः । किंवत् ? ६ कारवत् , यथा कर्मारो लोहकारो लोहादिग्रहणे उपादाताऽस्ति तथेत्यर्थः । अयमत्र भावार्थः यत्र खलु आदानाऽऽदेयभावस्तत्राऽवश्यमादाता समस्ति, यथा लोके सन्दंशकलोहानां लोहकारः, विद्यते ९चेन्द्रियविषयाणामादानाऽऽदेयभावः, अतस्तेषामप्यस्याऽऽदाता स
च जीवः, यत्र त्वादाता नास्ति तत्राऽऽदानादेयभावोऽपि न विद्यते,
यथाऽऽकाशे इति । सन्दंशेति । 'सन्दंशः स्यात्कङ्कमुख' इति १२ हैमः । 'सांडसी' इति लोकप्रसिद्धो लोहकाराद्युपकरण विशेषोऽयम् ।
उपादानमिति । उपाङ्पूर्वाद्दाञः करणे ल्युट् । कमोरेति । 'व्योकारः कर्मारो लोहकार' इति हैमः । उपादानेति । कर्तरि १५ तृत् ॥ ६१ ॥
तनोः सङ्घातरूपत्वात् स्वामी जीवोऽनुमीयते ।
भोग्यत्वाच शरीरस्य भोक्ता जीवोऽनुमीयते ॥ ६२ ॥ १८ तथा तनोः शरीरस्य सङ्घातरूपत्वात् स्वामी तन्नाथो जीव
आत्माऽनुमीयतेऽनुमानगोचरः क्रियते, तद्यथा--देहादीनां, विद्यते स्वामी, सङ्घातरूपत्वात् । उपलक्षणं ह्येतत्-तेन मूर्तिमत्त्वादैन्द्रिय२१ कत्वाचाक्षुषत्वादित्यादयोऽपि अनैकान्तिकत्वपरिहारार्थ संभवद्विहित
विशेषणा हेतवो योज्याः । यथा गृहादीनां सूत्रधारादय इति २३ दृष्टान्तः । यत्पुनरखामिकं तत्सङ्घातादिरूपमपि न भवति; यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org