________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १६७ ननु मूत्तोंऽयं जीवस्तर्हि घटादिवत् साक्षात्किमिति न दृश्यते ? इत्याशङ्कयाह
अदृष्टत्वेऽपि किं वायोमर्त्तत्वं नाभिलष्यते । ३
इत्थं चानुमितिग्राह्यो जीवः सद्भावमश्नुते ॥ ५९॥ वायोः पवनस्य अदृष्टत्वेऽपि साक्षादनुपलब्धत्वेऽपि किं त्वया मूर्तत्वं नाभिलष्यते न स्वीक्रियते ? एतावता साक्षादनुपलभ्यमानोऽपि ६ वायुस्त्वया मूर्तत्वेन खीक्रियते एव, एवं चामुं जीवमपि स्वीकुरु इति भावः । इत्थं च वक्ष्यमाणप्रकारेणापि अनुमित्याऽनुमानेन ग्राह्यो जीवः सद्भावमस्तित्वमश्नुते प्रामोति । अभिलष्यते इति । अभिपूर्वात् ९ 'लष कान्तौ' इत्यस्मात्कर्मणि लट् । अश्रुते इति । 'अशूङ् व्याप्तौ' अस्मात्कर्तरि लट् ॥ ५९॥ कथमित्याह
अक्षाणां परतत्रत्वात्करणत्वं विनिश्चितम ।
ततोऽधिष्ठायकं सौम्य ! विना जीवं कमिच्छसि?॥६०॥ हे गौतम ! अक्षाण मिन्द्रियाणां परतन्त्रत्वात्पराधीनत्वात्करणत्वं १५ साधनत्वं विनिश्चितं, निश्चयेन वर्तते इत्यर्थः । ततस्तस्मात् करणत्वात् जीवं विनाऽधिष्ठायकमिन्द्रियाणामधिष्ठातारं त्वं कमिच्छसि ? एतावता जीव एव तेषामधिष्ठाताऽस्तीत्यर्थः । इदमत्र तात्पर्यम् ; अयमत्र १८ प्रयोगः-इन्द्रियाणां, अस्ति अधिष्ठाता, करणत्वात् , यथा चक्र-चीवरमृत्-सूत्र-दण्डानां कुलालः, यच्च निरधिष्ठातृकं तत्करणमपि न भवति, यथाऽऽकाशं, यश्चेन्द्रियाणामधिष्ठाता स जीव इति ॥ ६०॥ २१
सन्दंशवदुपादानमक्षग्रामं प्रतीहि भोः ।
कारवदुपादाता विषयग्रहणेऽस्त्ययम् ॥ ६१॥ २३ ... १ 'ग्रहणेऽस्वयम्' इति काशीमुद्रितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org