________________
१६६
श्रीगौतमीयकाव्यं
ईश्वरः सगुणो यस्तु त्वदुक्त्या कर्तृतां गतः ।
नामान्तरेण तं जीवं विद्धि गौतम! बुद्धितः॥ ५७॥ ३ हे गौतम ! यस्तु त्वदुत्त्या तव वचनेन कर्त्ततां गतः कर्तभावं प्राप्तः, अत एव सह गुणै रागद्वेषादिभिर्वर्त्तते इति सगुण ईश्वरोऽस्ति तं बुद्धितो बुद्ध्या नामान्तरेण अपरनाम्ना जीवं विद्धि जानीहि । ये ६ सगुणमीश्वरं त्वं कर्तत्वेनाङ्गीकरोषि स एवास्माभिर्जीव उच्यते, अतो अस्माकमिष्टसिद्धिरेवेति भावः ॥ ५७ ॥
अथोक्तानुमाने दोषमाशय परिहरन्नाह९. दृष्टान्ते मूर्ततां वीक्ष्य दोषमात्मनि मा ग्रही।
अंदृष्टदेहसंयोगान्मूर्त्तत्वं तस्य निश्चितम् ॥ ५८ ॥ हे गौतम ! त्वं दृष्टान्ते कुलाललक्षणे मूर्ततां मूर्तिमत्त्वं वीक्ष्य १२ दृष्ट्वा आत्मनि जीवे दोषं मूर्तत्वाभावलक्षणं मा ग्रहीः मा गृहाण ।
कथमित्याह-अदृष्टेत्यादि । अदृष्टं शुभाऽशुभं कर्म, देहः शरीरं, तयोर्जीवेन सह यः संयोगः सम्बन्धस्तस्मात् तस्य संसारिणो जीवस्य १५ मूर्त्तत्वं मूर्तिमत्त्वं निश्चितमसन्दिग्धं, विद्यते इति शेषः । तथा च
सति न तद्दोषसंभवः । अयमर्थः- 'घटस्य कर्ता कुलालो मूर्तिमान
सङ्घातरूपोऽनित्यादिखभावश्च दृष्ट इति, अतो जीवोऽप्येवंग्धि एव १८ सिध्यति, एतद्विपरीतश्च किलाऽस्माकं साधयितुमिष्ट इत्येवं साध्यविरुद्धसाधकत्वात् दुष्टोऽयं हेतु'रिति त्वं मन्यसे-तदेतदयुक्तं, यतः खलु संसारिणो जीवस्य साधयितुमिष्टस्याऽदोषोऽयं, स हि अष्टकर्म
पुद्गलसङ्घातोपगूढत्वात् शरीरत्वाच्च कथंचित् मूर्तत्वादिधर्मयुक्त एवेति २२न दोषलेशोऽपि शङ्कय इति ॥ ५८ ॥
१ 'अदृष्टे देहसंयोगात्' इति काशीमुद्रितः पाठो न मनोरमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org