________________
गौतमीय प्रकाशाख्यटीकया सहितम् ।
कारत्वं मेर्वादीनामप्यस्ति, नच तेषां कश्चित्कर्त्ता इति तैरनैकान्तिको हेतुः स्यात्, अतोऽत्राऽऽदिमत्त्व विशेषणमुपात्तमिति । आदीत्यादि । आदिर्विद्यते अस्याः साऽऽदिमती, नियतो निश्चित आकारो यस्याः ३ सा नियताकारा, आदिमती चासौ नियताकारा चेति कर्मधारये पुंवद्भावः । तनुशब्दः शरीरवाची नित्यस्त्रीलिङ्गः ॥ ५५ ॥
ननु देहस्य कर्त्ता तु ईश्वरोऽस्ति, न तु जीवस्ततो नैतदनुमान - ६ मात्मसाधकमित्याशङ्कयाह -
"
ईश्वरो निर्गुणो यो वा न स कर्तृत्वमर्हति ।
कृतकृत्यत्वसाचिव्यान्निर्विकल्पत्वतोऽपि वा ॥ ५६ ॥ ९ गौतम ! ईश्वरो द्विविधः – निर्गुणः सगुणश्च । तत्र यो वा निर्गुणो रागद्वेषादिगुणवर्जित ईश्वरः परमात्माऽस्ति स तु कर्तृत्वं कर्तृभावं नार्हति, न योग्यो भवति । कुत इत्याह - कृतेत्यादि । १२ कृतानि कृत्यानि येन स कृतकृत्यो निष्पादितप्रयोजनस्तस्य भावः कृतकृत्यत्वं, सचिवस्य भावः साचिव्यं साहाय्यं कृतकृत्यत्वस्य साचिव्यं कृतकृत्यत्वसाचिव्यं तस्मात् कृतार्थत्वसाहाय्यात् वा । पुनर्निर्विकल्प - १५ त्वतो विकल्परहितत्वादपि । एतावता निखिलकर्मक्षयान्मोक्षं प्राप्य कृतकृत्यीभूतोऽत एव विकल्पवर्जितो य ईश्वरस्तस्य पुनः कर्म कर्तृत्वमयुक्तमिति भावः । निर्गुण इति । निर्गता गुणा यस्मात्सः, निष्क्रान्तो १८ गुणेभ्य इति वा 'निरादयः क्रान्त्याद्यर्थे' ( वा० ) इति पञ्चम्यन्तेन समासः । ‘सचिवः सहायेऽमात्ये' इति हैम: ( अनेकार्थः) ॥ ५६ ॥ २०
"
१६५
१ व्यभिचारापरपर्यायोऽनेकान्तनामाऽसौ हेत्वाभासः, लक्षण-भेदाभ्यां तस्य त्रैविध्यम्, अत्र तु साधारणो व्यभिचारः, तल्लक्षणञ्च साध्यवदन्यवृत्तिर्हेतुः । २ मेर्वादीनां नास्ति आदिमत्ता, तेषां कथंचित् शाश्वतत्वात् नित्यत्वात् ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org