________________
१६४
श्री गौतमीयकाव्यं
इदमत्र तात्पर्यम् -'यतो यथा शशकेन समं शृङ्गं केनाऽपि न प्राग्गृहीतं तथा न खलु लिङ्गैः कैश्चिदपि समं लिङ्गी जीवः क्वापि केनापि पुरा ३ उपात्तः ततो न लिङ्गादनुमेयोऽसौ जीव इति यन्मन्यसे त्वं' - तत्रोच्यते सोऽनेकान्तः, यस्माल्लिङ्गैः सममदृष्टपूर्वोऽपि भूतो देवविशेषः शरीरे हसन - गान - रोदन - करचरणभ्रूविक्षेपादिभूतलिङ्गदर्शनादनुमीयते इति ६ बालानामपि प्रतीतमेवेति । आद्यपद्ये चशब्दः पादपूरणे । लिङ्गेनेति । हेत करणे वा तृतीया ॥ ५३ ॥ ५४ ॥
अनुमानान्तरमप्यात्मसाधकमाह
आदिमन्नियताकारा जातौ जातौ यतस्तनुः ।
कुलाल इव कुम्भस्य तत्कर्त्ता कोऽपि कल्प्यताम् ||५५|| यतो यस्माद्धेतोर्गोमहिषादिभेदभिन्नायां जातौ जातौ तनुः शरीरम १२ आदिमन्नियताकारा आदियुक्ता प्रतिनियताकारवती च दृश्यते । ततस्तस्यास्तनोः कर्त्ता निष्पादकः कोऽपि पदार्थः कल्प्यतां समर्थ्यताम् । कस्य क इव ? --- कुम्भस्य घटस्य कुलालः कुम्भकार इव । यथा कुम्भस्या१५ दिमन्नियताकारत्वात्कर्त्ता कुलालो विद्यते तथेत्यर्थः, यश्च तनाः कर्ता सजीव एवेति । अयमर्थः - देहः सकर्तृकः, आदिमत्त्वे सति प्रति• नियताकारत्वात्, घटवत् । इह यद्वस्तु आदिमत्प्रतिनियताकारं तत् १८ सकर्तृकं दृष्टं यथा घटः, यत्पुनरकर्तृकं तदादिमत् प्रतिनियता कार
,
-~
,
मपि न भवति, यथाऽम्रविकारः यथाऽऽदिमत्प्रतिनियताकारो देह२० स्ततः सोऽपि कर्तृकः, यश्च तस्य कर्त्ता स जीवः, प्रतिनियता
१ अत्र 'जातौ यतस्तनुस्ततः' इति काशीमुद्रितपाठोऽखरसः, छन्दोभङ्गदोषदुष्टत्वात् स्वारस्यविरहाच्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org