________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
१६३
यथा वदेहे एवममुना प्रकारेणान्यदेहे परशरीरेऽपि अनुमानादनुमानप्रमाणेन चिन्मयं विज्ञानात्मकं जीवमात्मानं गृहाणाऽवबुध्यख कथमित्याह — अस्तीति । विज्ञानमय आत्मा विद्यते इति । अनु - ३ मानमेव सूचयन्नाह – प्रवृत्तीत्यादि । प्रवृत्ति - निवृत्तिभ्यां हेतुभ्यां स्वरूपवत् यथा खरूपे इव इति । अयमर्थः - परशरीरेऽप्यस्ति जीवः इष्टानिष्टयोः प्रवृत्ति - निवृत्तिदर्शनात् यथा खरूपे खात्मनि, इह यत्रे - ६ ष्टानिष्टयोः प्रवृत्ति निवृत्ती दृश्येते तत् सात्मकं दृष्टं, यथास्वशरीरं, तथा च प्रवृत्ति - निवृत्ती दृश्येते परशरीरेऽतस्तदपि सात्मकम् । आत्माभावे च इष्टाऽनिष्टप्रवृत्ति - निवृत्ती न भवतः यथा घटे, ९ इत्यनुमानात् परशरीरेऽप्यात्मसिद्धिरिति । चिन्मयमिति । चिद् ज्ञानमेव खरूपमस्येति चिन्मयस्तं स्वरूपवदिति खरूपे इवेत्यर्थे सप्तम्यन्ताद्वतिः ॥ ५२ ॥
ननु लिङ्गलिङ्गिनोः पूर्वं सम्बन्धाग्रहणान्न लिङ्गाज्जीवोऽनुमीयते इत्याशय तत्प्रतिविधानमाह
१२
अगृहीत्वाऽपि सम्बन्धं पूर्व लिङ्गेन लिङ्गिनः । समं विधीयते चानुमानं लिङ्गेन तद्यथा ॥ ५३ ॥ हसनै रोदनैर्गानैर्भूतो गात्रेऽनुमीयते ।
अतो नैकान्तिकं पूर्व सम्बन्धग्रहणं स्मृतम् ॥ ५४ ॥ १८ पूर्वं प्रथमं लिङ्गेन समं चिह्नेन सार्द्धं लिङ्गिनस्सम्बन्धं अगृहीत्वाऽपि अपरिगृह्याऽपि लिङ्गेन अनुमानं विधीयते क्रियते । कथमित्याहतद्यथेत्यादि । तद् दर्श्यते-यतो हसनैर्हास्यै रोदनैरश्रुमोचनैर्गानैर्गीति- २१ भिश्च हेतुभिर्गात्रे शरीरे भूतो देवविशेषोऽनुमीयते ऽतोऽस्माद्धेतोः पूर्वं लिङ्गलिङ्गिनोः सम्बन्धग्रहणमनैकान्तिकमनिश्चितं स्मृतं कथितम् । २३
I
Jain Education International For Private & Personal Use Only
www.jainelibrary.org
१५