________________
१६२
श्रीगौतमीयकाव्यं
मिति । चक्षुषा गृह्यते इत्यर्थे विशेषे इत्यण् । निरित्यादि । निर्गत उपाधिर्यस्मात् , 'खसमीपवर्जिनि खवृत्तिधर्मसङ्क्रामकत्व'मुपाधित्वमिति ३ तल्लक्षणम् ॥ ५० ॥
अथोपसञ्जिहीर्षुराहइत्यात्मा देशतस्तेऽपि प्रत्यक्षः सर्वथा मम ।।
अस्खलज्ज्ञानयुक्तत्वाद्भवतः संशयो यथा ॥५१॥ इत्येवमुक्तप्रकारेण हे गौतम ! स्वशरीरे तेऽपि तवापि देशत एकदेशेन आत्मा प्रत्यक्षोऽस्ति, छद्मस्थत्वेन भवतः सर्वस्यापि वस्तुनो ९ देशविषयत्वात् घटवत् , तथा हि-सर्वमपि खपरपर्यायतोऽनन्तपर्यायं वस्तु, छद्मस्थश्च प्रत्यक्षेण साक्षात् तद्देशमेव गृह्णाति, प्रत्यक्षेण
च प्रदीपादिप्रकाशेनेव देशतः प्रकाशिता अपि घटादयो व्यवहारतः १२ प्रत्यक्षा उच्यन्ते एव, सर्वात्मना च केवलिप्रत्यक्षमेव वस्तु प्रकाशयति,
अतो मम अस्खलज्ज्ञानयुक्तत्वादप्रतिहतानन्तज्ञानवत्त्वेन सर्वथा सर्वात्मनाऽपि प्रत्यक्षोऽयमात्माऽस्ति यथा भवतस्त्वत्सम्बन्धी संशयः १५ सन्देहः । एतावताऽप्रतिहतानन्तज्ञानिनो मम यथाऽतीन्द्रियमपि त्वत्संशयविज्ञानं प्रत्यक्षं तथा सर्वात्मनाऽयमात्माऽपि, इति प्रति
पद्यख । अस्खलदित्यादि । अस्खलच्च तद् ज्ञानं च अस्खल. १८ ज्ज्ञानं, एतेन युक्तोऽस्खलज्ज्ञानयुक्तस्तस्य भावस्तत्वं तस्मात् ॥५१॥ . परशरीरे तर्हि कथमित्याह
अनुमानाद्गृहाणैवमन्यदेहेऽपि चिन्मयम् ।
जीवमस्तीति प्रवृत्ति-निवृत्तिभ्यां स्वरूपवत् ॥५२॥ १ यथा स्फटिके जपाकुसुमरक्तता, अत्र जपाकुसुमसमीपवर्तिनि स्फटिके ख-जपाकुसुमवृत्तिरक्तत्वधर्मसंक्रामकत्वम् उपाधिसमित्यर्थः ।
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org