________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १६१ मिति'-तदयुक्तम् ; यतो नाऽऽकाशगुणः शब्दः, किंतु पुद्गलगुणः, ऐन्द्रियकत्वाद्र्पादिवत्" (विशे० बृहद् पृ० ६६८)। इत्यादि अत्र बहु वक्तव्यमस्ति, तच्च स्वयमेव विशेषावश्यकवृत्तेरवसेयम् । अस्सा-३ भिस्तु ग्रन्थगौरवभयान्नात्र लिखितमस्तीति । अमंस्था इति । 'मन ज्ञाने' अस्मात् 'माङि लुङ्' (३।३।१७५) इति कर्तरि लुङ् । पौगलिक इति । पुद्गलस्यायमित्यर्थे ठक् । आकाशेति । आकाशं ६ गच्छतीति गमेर्डः ॥ ४८॥ अथ प्रसङ्गात् प्रत्यक्षलक्षणमाह
प्रत्यक्षं मानसग्राह्यं विज्ञानादिगुणग्रहे ।
विशदप्रतिभासं यत्तद्धि प्रत्यक्षलक्षणम् ॥ ४९ ॥ - यत् मानसेन मनसा ग्राह्यमुपादेयं, तथा विज्ञानादयो ये गुणास्तेषां ग्रहणं तत्र विशदः स्पष्टः प्रतिभासः प्रकाशो यस्य तत् तथा-१२ विधं भवति तत् प्रत्यक्षमुच्यते । हीति निश्चये, न इदं प्रत्यक्षस्य लक्षणं बोध्यम् । प्रतिभासमिति । प्रतिभासनं प्रतिभासः प्रतिपूर्वात् 'भास दीप्तौ' इत्यस्माद्भावे ( ३।३।१८) घञ् । लक्षणमिति । १५ लक्ष्यतेऽनेनेति लक्षणं, करणे ल्युट् ॥ ४९ ॥
यदि चाक्षुषमेव स्यात्प्रत्यक्षं किं तदोच्यते ? ।
गन्धादि विषये ज्ञानं प्रत्यक्षं निरुपाधिकम् ॥ ५० ॥ १८ __ यदि केवलं चक्षुरिन्द्रियग्राह्यमेव प्रत्यक्षं स्यात् तदा गन्धादिविषये गन्धरसस्पर्शादिविषये निरुपाधिकमुपाधिवर्जितं प्रत्यक्षं ज्ञानं किमुच्यते कथं प्रोच्यते ? तस्मात्प्रागुक्तमेव तल्लक्षणं ज्ञेयं । चाक्षुष-२१
१ "विशदप्रतिभासं यत्तद्धिप्रत्यक्षलक्षणम्" इति अत्र सर्गे (४९) श्लोकस्यान्त्यपादोक्तं, अनेन 'स्पष्टं प्रत्यक्षम्' इति वादिदेवसूरिभिः (प्रमाणनयतत्त्वालोक-१।२।) प्रोक्तं प्रत्यक्षलक्षणमपि संगच्छते ।
११ गौ० का.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org