________________
श्रीगौतमीयकाव्यं
गुणी प्रत्यक्ष एव स्याद्गुणे प्रत्यक्षतां गते ।
रूपे गुणे हि प्रत्यक्षे प्रत्यक्षः स्याद्धटो गुणी ॥४७॥ ३ गुणे ज्ञानादौ प्रत्यक्षतां गते प्रत्यक्षमा प्राप्ते सति गुणी गुणाऽऽश्रय
आत्मादिः प्रत्यक्ष एव स्यात् । केन दृष्टान्तेनेत्याह-रूपे इत्यादि। हि यतो रूपे कृष्णरक्तादिके गुणे प्रत्यक्षे सति गुणी कृष्णरक्तादिन ६ रूपाश्रयो घटः प्रत्यक्षः स्यात् । अयमर्थः-प्रत्यक्ष एव गुणी जीवः स्मृति-जिज्ञासा-चिकीर्षा-जिगमिषा-संशयेत्यादिज्ञानविशेषाणां तद्णानां स्वसंवेदनप्रत्यक्षसिद्धत्वात् , इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो ९दृष्टो यथा घटः, प्रत्यक्षगुणश्च जीवस्तस्मात्प्रत्यक्षोऽयं, यस्माद् घटोऽपि गुणी रूपादिगुणप्रत्यक्षत्वादेव प्रत्यक्षः तद्वद्विज्ञानादिगुणप्रत्यक्षत्वादा.
मापि प्रत्यक्ष इति ॥ ४७ ॥ १२ - अथोक्तार्थे दोषाविर्भावपूर्व प्रतिविधानमाह
शब्दे गुणे तु प्रत्यक्षे गुण्याकाशस्तथा न किम् ? । मैवं मंस्थाः, पौद्गलिकः शब्दो नाकाशगो गुणः॥४८॥ १५ तुशब्दः प्रश्ने, 'ननु शब्दे शब्दाभिधाने गुणे प्रत्यक्षे सति गुणी
शब्दगुणाश्रय आकाशस्तथा तेन प्रकारेण किं न शब्दवत् प्रत्यक्षः? कथं नास्तीत्यर्थः । एवममुना प्रकारेण हे गौतम ! त्वं माऽमंस्था मा १८ मनख । कथमित्याह-पौगलिक इत्यादि । यतः शब्द आकाशगो
गुणो न भवति, किंतु पौद्गलिकः पुद्गलगुणोऽस्ति, पुद्गलस्तु प्रत्यक्ष एवेति न शङ्कालेशोऽप्यत्र कार्यः । इदमेवाहुः पूज्या:-'नन्व२१नैकान्तिकोऽयं, यस्मादाकाशगुणः शब्दः प्रत्यक्षोऽस्ति, न पुनराकाश.
१ मलधारिश्रीहेमचन्द्रसूरिपादाः विशेषा० बृहदृत्तौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org