________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १५९ ज्ञानगुणस्य गुणी आश्रयो न भवेत् । कथमित्याह-अमत्यादि। यतो यस्मात्कारणादमूर्तस्य गुणस्य विज्ञानादेरनुरूपो योग्योऽमूतों गुणी आत्मादिरेवास्ति, नतु मूर्तः शरीरादिरिति । अमुमेवार्थ विस्त-३ रतस्तु विशेषावश्यकवृत्तौ श्रीहेमसूरिपादाःप्राहुः तथाहि-ननु] देहोऽत्र गुणीति चेन्न, देहस्य मूर्तत्वाजडत्वाच्च ज्ञानस्य चामूर्तत्वादोधरूपत्वाच्च, न चाननुरूपाणां गुणगुणिभावो युज्यते । आकाश-६ रूपादीनामपि तद्भावापत्त्याऽतिप्रसङ्गप्राप्तेः, अथवा संशयिते स्वरूपे हे गौतम ! किमसंशयं शेषं भवेत् ? । इदमुक्तं भवति—'किमस्मि नास्म्यहम्' इत्येवं यः खरूपेऽपि संशेते-आत्मनिश्चयोऽपि यस्य ९ नास्तीत्यर्थः तस्य शेषं कर्मबन्ध-मोक्षादिकं घट-पटादिकं च किमसंशयमसंदिग्धं स्यात् ? न किंचित् सर्वसंशय एव तस्य स्यादित्यर्थः । आत्मास्तित्वनिश्चयमूलो हि शेषवस्तुनिश्चय इति भावः । अहंप्रत्यय-१२ ग्राह्यं च प्रत्यक्षमात्मानं निवानस्य 'अश्रावणः शब्द' इत्यादिवत् प्रत्यक्षविरुद्धो नाम पक्षाभासस्तथा वक्ष्यमाणात्मास्तित्वानुमानसद्भावात् 'नित्यः शब्द' इत्यादिवदनुमानविरुद्धोऽपि, तथा 'अहमस्मि संशयी ति १५ प्रागभ्युपगम्योत्तरत्र 'नास्मीति प्रतिजानानस्य, सांख्यस्य 'अनित्यः कर्ता अचेतन आत्मे त्यादिवदभ्युपगमविरोधः, बाल-गोपाला-ङ्गनादिप्रसिद्धं चात्मानं निराकुवतः 'अचन्द्रः शशी' त्यादिवल्लोकविरुद्धः, १० 'अहं नाहं चेति' च गदतो 'माता मे वंध्ये त्यादिवत् खवचनव्याहतिरित्यादि" ॥ ४६॥
प्रकारान्तरेणाप्यात्मनः प्रत्यक्षसिद्धतामाह१ ज्ञानादिगुणवत्त्वापत्त्या न नियतो गुणगुणिभावः प्रसज्येत ।
vvvvvvvvv
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org