________________
१५८
श्रीगौतमीयकाव्यं
[किंच] हन्त कथमसति जीवेऽहमिति प्रतिपन्नं त्वया, विषयाभावे विषयिणोऽनुत्थानप्रसङ्गात् , 'देह एव अस्याहंप्रत्ययस्य विषय इति ३ चेन्न,' जीवविप्रमुक्तेऽपि देहे तदुत्पत्तिप्रसङ्गात् । सति च जीवविषयेऽस्मिन्नहंप्रत्यये 'किमहमस्मि [वा]नास्मि' इति भवतः संशयः केन प्रकारेणोपजायते ? अहंप्रत्ययग्राह्यस्य जीवस्य सद्भावादस्म्यहमिति निश्चय एव युज्यते इति भावः । सति चास्मिन्नात्माऽस्तित्वसंशये कस्यायमहंप्रत्ययो युज्यते ? निर्मूलत्वेन तदनुत्थानप्रसङ्गादिति" (विशेषा० बृह० पृ० ६६७) ॥ ४३ ॥ ४४ ॥ . जीवाभावे संशयविज्ञानमपि न युज्यते एवेति दर्शयन्नाहउत्पादः संशयस्यापि न स्यात् संशयिनं विना । विज्ञानाख्यो गुणो ह्येष विहाय गुणिनं कुतः १ ॥ ४५ ॥ १२ संशयोऽस्ति अस्येति संशयी संदेहवान् जीवस्तं विना संशयस्यापि
उत्पाद उत्पत्तिर्न स्यात् । कथमित्याह-विज्ञानेत्यादि । हि यत
एष संशयो विज्ञानमाख्या यस्य स विज्ञानाख्यो विज्ञाननामा गुणो१५ऽस्ति, स च गुणिनं विहाय गुणाश्रयं द्रव्यं मुक्त्वा कुतः संभवेत् ?
अयमर्थः-यदि संशयी जीव एव आदौ नास्ति तर्हि अस्मि-नास्मीति संशयः कस्य भवतु ? संशयो हि विज्ञानाख्यो गुण एव । न च १८गुणिनं विना गुणः संभवतीति ॥ ४५ ॥
नन्वत्र देह एव गुण्यस्तु इत्याशय प्रतिविधानमाहमूर्त्तत्वाद्वा जडत्वाद्वा देहोऽस्य न गुणी भवेत् ।
अमूर्तस्य गुणस्यानुरूपोऽमूर्तो गुणी यतः ॥ ४६॥ २२ मूर्त्तत्वान्मूर्तिमत्त्वात् वा पुनर्जडत्वादचेतनत्वाद्देहः शरीरोऽस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org