________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
१५७
इतश्चायं प्रत्यक्षो जीवः कुत इत्याहअहंप्रत्यय एकोऽपि क्रियां त्रैकालिकी स्पृशन् । प्रत्यक्षो दृश्यते, जीवं विनाऽहंप्रत्ययः कुतः १॥४३॥ ३ शरीर एव चेदेषः प्रत्ययो गृह्यते तदा । तदवस्थे शरीरेऽपि मृतस्य न भवेत्कथम् ? ॥४४॥
एकोऽपि अहंप्रत्ययस्त्रैकालिकी भूत-भवद्-भावि-लक्षणकालत्रयो-६ द्भवां क्रियां स्पृशन् आश्रयन् प्रत्यक्षः साक्षात् दृश्यते विलोक्यते । ततः किमित्याह-जीवमित्यादि । जीवं विनाऽत्मानमन्तरेण अहमित्याकारकः प्रत्ययः कुतः कस्माद्भवेत् ? जीवसद्भावे एव तत्संभवः९ स्यात् , ततोऽस्त्येव प्रत्यक्षो जीव इति । 'नन्वयमहंप्रत्ययो देहे एवोत्पद्यते, न जीवे इत्याशङ्कापूर्वं प्रतिविधानमाह-शरीर इत्यादि । चेद्यदि एषोऽहमित्याकारकः प्रत्ययः शरीरे एव गृह्यते स्वीक्रियते १२ तदा सा अवस्था यस्य तत् तदवस्थं, तस्मिन् तदवस्थे जीवितवत् । स्थिते मृतस्य व्यापन्नस्य प्राणिनः शरीरेऽपि कथं न भवेत् । एतावता जीवं विनाऽपि चेदप्रत्ययः स्यात्तर्हि मृतशरीरेऽपि स युज्यते, १५ तस्माज्जीवविषयक एवायमित्यर्थः । यदाहुः पूज्या:--"[यतः] 'कृतवानहं, करोम्यहं, ज्ञातवानहं, जानेऽहं, ज्ञास्याम्यहम्' इत्यादिप्रकारेण योऽयं त्रैकालिकः कार्यव्यपदेशः, तद्विषये प्रयुज्यमानतया १८ तत्समुत्थो योऽयमहंप्रत्यय, एतस्मादपि प्रत्यक्ष एवाऽयमात्मेति प्रतिपद्यस्व । अयं हि अहंप्रत्ययो नानुमानिकः, अलैङ्गिकत्वात् ; नाप्यागमादिप्रमाणसंभवः, तदनभिज्ञानां बालगोपालादीनामप्यन्तर्मुखतयाऽऽत्मग्राहकत्वेन खसंविदितस्य तस्योत्पादात् , घटादौ चानुत्पादादिति।२२
१ इतः वक्ष्यमाणकारणात् । २ मलधारिश्रीहेमचन्द्रसूरिपादाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org