________________
श्रीगौतमीयकाव्यं
- हे गौतम! हे इन्द्रभूते!, त्वं शृणु निशामय–यदि भवतस्तव वसंवेद्ये निजानुभवसिद्धे सुखदुःखे साताऽसाते प्रत्यक्षे प्रत्यक्षज्ञानविषय३ भूते विद्यते तर्हि सन्देहविज्ञानं संशयादिविज्ञानं तथा तेन प्रकारेण
खसंवेदनसिद्धम् , अत एव प्रत्यक्षं किं न हि अस्ति ? । अस्त्येवेत्यर्थः । ततः किमित्याह-विज्ञानेत्यादि । विज्ञानं खरूपमस्येति कविज्ञानमय एवंविध एवायं जीव आत्माऽस्माभिः प्रत्यक्ष इष्यते वाञ्छ्यते नतु विज्ञानातिरिक्तोऽन्यः कोऽपीत्यर्थः । तथाऽस्मिन् प्रत्यक्षेऽसति अविद्यमाने सति अन्यत्प्रमाणं प्रमाणान्तरमनुमानादि ९ तेन साध्यत्वं विचार्य्यते विचिन्त्यते, सति प्रत्यक्षे वृथा प्रमाणान्तरोपन्यास इत्यर्थः । यदाहुः भाष्यव्याख्यातारः श्रीहेमसूरयः पूज्याः
"गौतम ! भवतोऽपि प्रत्यक्ष एवायं जीवः किमन्येन प्रमाणान्तरोपन्या१२ सेन ? 'ननु कोऽयं जीवो मम प्रत्यक्ष इति चेदु'च्यते--यदेतत् तवैव
संशयादिविज्ञानं खसंवेदनसिद्धं हृदि स्फुरति स एव जीवः, संशयादिज्ञानस्यैव तदनन्यत्वेन जीवत्वात् । यच्च प्रत्यक्षं तन्न प्रमाणान्तरेण १५ साध्यं, यथा खशरीर एवात्मसंवेदनसिद्धाः सुखदुःखादयः । [न] 'प्रत्यक्षसिद्धमपि सग्रामनगरं विश्वं शून्यवादिनं प्रति साध्यते एवेति
चेत्' नैवं, निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् खप्नप्रत्ययवदित्यादे१८ स्तदुद्भावितबाधकप्रमाणस्यैव तत्र निराकरणात् अत्र त्वात्मग्राहकप्रत्यक्षे
बाधकप्रमाणाभावादिति” (विशेषाव० बृहद्वृत्ति० गा० १५५४ २० पृ० ६६६-७)॥४१॥ ४२ ।।
१ तच्च विशेषावश्यकभाष्यम्-श्रीजिनभद्रगणिक्षमाश्रमणैर्विहितम् ; तयाख्या मलधारिश्रीहेमचन्द्रसूरिवरैर्विहिता । काशी यशोविजयग्रन्थमालाद्वारेण मुद्रणपथमानीतम्। २ जीवाभिमत्वेन जीवरूपत्वात् । ३ एतचिह्नाङ्कितः पाठो मुद्रितग्रन्थे नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org