________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
१५५
नेन प्रकटीकृतः प्रादुष्कृतः । यथा मे हृदि सन्देहोऽभूत् तथैवानेन साम्प्रतं स प्रकटितो न तु किश्चिदन्यथेति भावः । अवतिष्टेति । 'वृतु वर्तने' अस्मात्कर्तरि लुङ् । तुः पादपूरणे ॥ ३८॥ ३
उपांशु स्थितमेतमान हि किञ्चन विद्यते । ततः सर्वविदोऽसान्मे भवतात्तत्त्वनिर्णयः ॥ ३९॥ एतस्माद्वीरजिनादुपांशु प्रच्छन्नं स्थितं वर्तमानं किंचन किमपि ६ वस्तु न हि विद्यते न हि अस्ति । एतस्य सर्वमपि वस्तुजातं प्रत्यक्षमेवास्तीत्यर्थः । ततस्तस्मात्कारणात् अस्मात्सर्वविदः सर्वज्ञान्मे मम तत्त्वनिर्णयः परमार्थनिश्चयो भवतात् सम्पद्यताम् । उपांश्विति ।९ अव्ययमिदम् । 'रहस्युपांशु' इति हैमः । किञ्चनेति । इदमप्यव्ययं । सर्वेत्यादि । सर्वं वेत्तीति सर्ववित् तस्मात् , किबन्तः ॥ ३९ ।
इति सङ्कल्पयन्तं तं विज्ञाय पुरुषोत्तमः। १२ __ आचष्ट पुनरप्येनं नयनुत्तरपक्षताम् ॥ ४० ॥
इत्येवं प्रागुक्तप्रकारेण सङ्कल्पयन्तं चिन्तयन्तं गौतमं विज्ञाय ज्ञात्वा पुरुषोत्तमः पुरुषश्रेष्ठो भगवान् एनं गौतममुत्तरपक्षतामुत्तरपक्ष-१५ भावं नयन् प्रापयन् पुनरपि भूयोऽपि आचष्ट अकथयत् । पुरुषत्यादि । पुरुषेषु उत्तम इति विग्रहः । आचष्टेति । 'चक्षिक व्यक्तायां वाचि' आपूर्वादस्मात्कर्तरि लङ् ॥ ४०॥
किमाचष्टेत्याहसखदःखे स्वसंवेद्ये प्रत्यक्षे भवतो यदि। शृणु गौतम! सन्देहविज्ञानं किं तथा न हि ॥४१॥ २१ विज्ञानमय एवं हि प्रत्यक्षो जीव इष्यते। प्रमाणान्तरसाध्यत्वमसत्यसिन् विचार्यते ॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org