________________
१५४
श्रीगौतमीयकाव्यं
अन्तश्चित्तमध्ये चमत्कृतश्चमत्कारं प्राप्तः, विस्मित इति यावत् । अत एव विशुद्धा निर्मला धीर्बुद्धिर्यस्य स तथाविधो गौतम इन्द्र३भूतिः, अहो इति आश्चर्ये, एष वीरजिनः सर्वज्ञः सर्वपदार्थज्ञाताऽस्तु भवतु इत्यमुना प्रकारेण दध्यौ चिन्तयामास । दध्याविति । 'ध्यै चिन्तायाम्' अस्मात्कर्तरि लिट् ॥ ३६ ॥ ६ पुनः किं दध्या वित्याह
सन्दिग्धोऽर्थोप्रकाश्योऽयमासीच्छल्य इवोरसि ।
प्रतिष्ठालोपभीतेन मयाऽऽख्यातो न कर्हिचित् ॥३७॥ ९ अयं सन्दिग्धः सन्देहविषयीभूतोऽर्थ उरसि मदीये हृदि शल्य इव अप्रकाश्योऽप्रकाशनीय आसीत् अभवत् । कथमित्याह-यतः
प्रतिष्ठाया गौरवस्य लोपो विनाशस्तस्माद्भीतेन दरितेन मया कर्हि १२ चित् कदापि न आख्यातो न निगदितः । एतावता यद्यमुं संशयं विद्वत्सु प्रकटयिष्यामि तर्हि मे महत्त्वविघातो भविष्यतीत्याशङ्कया
अयमर्थः कदापि विदुषां पुरो न प्रकटीकृत इति भावः । प्रतिष्ठेति। १५ प्रतिष्ठा गौरवे स्थितावि'त्यनेकार्थः । भीतेनेति । 'दरितश्चकितो भीत' इति हैमः ॥ ३७॥
___ यावद्विकल्पः सन्देहोऽवर्तिष्ट मम मानसे । १४ तावद्विकल्पस्त्वधुनाऽमुनाऽयं प्रकटीकृतः ॥ ३८॥ ,
मम मानसे मदीये चित्ते यावन्तो विकल्पाः सङ्कल्पा यत्रेति यावद्विकल्पः सन्देहः संशयोऽवर्तिष्ट अवृतत् , तावन्तो विकल्पा २१ यत्रेति. तावद्विकल्पोऽयं सन्देहोऽधुना सम्प्रति अमुनाऽनेन वीरजि.
१ 'अप्रकाश्यो य आसीत्' इति काशीमुद्रितपाठश्चिन्यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org