________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १५३ उपपत्तिविनाऽऽत्मानं न भवेद्यस्य किं च तत् ।
यदलात्साधयेदेनमीपत्त्या बुधो जनः॥३४॥ ___ च पुनर्यस्य वस्तुन आत्मानं विना जीवमन्तरेणोपपत्तिः समर्थनं ३ न भवेत् , तद्वस्तु किं विद्यत इति शेषः, यतो बुधो जनो विद्वज्जनो यहलात् यस्य वस्तुनो बलात् एनमात्मानमर्थापत्त्याऽर्थापत्तिप्रमाणेन साधयेत् । एतावता न हि दृष्टः श्रुतो वा कोऽप्यर्थ आत्मानमन्तरेण ६ नोपपद्यते, यबलात्तं साधयाम इति भावः ॥ ३४ ॥
एवं प्रमाणाविषयो जीवो भावोऽस्ति वा न वा। संशेषे मनसीति स्खे सर्वज्ञत्वात्तु वेद्यहम् ॥ ३५॥ ९ एवं प्रागुक्तनीत्या प्रमाणानां प्रत्यक्षादीनामविषयोऽगोचरो जीव आत्मा भावः सत्पदार्थोऽस्ति वा, न वा-नास्ति वा ? एतावता काप्यागमे एतत्सद्भावप्रतिपादनादयमस्ति अथवा भावोपलम्भकप्रमाणपञ्चक १२ विषयतातीतत्वात् प्रतिषेधसाधकाभावाख्यषष्ठप्रमाणविषय एवायं जीव इत्यर्थः । हे गौतम, इत्यमुना प्रकारेण त्वं खे निजे मनसि हृदये संशेषे संशयं विदधासि । ननु कुतो भवद्भिरेतद् ज्ञातमित्याशङ्याह- १५ सर्वेत्यादि । सर्व वस्तुजातं जानातीति सर्वज्ञः, तस्य भावस्तत्त्वं, तस्मात्सर्वज्ञभावेन अहं वेद्मि, सर्वमपि त्वन्मनोगतसंशयं जानामीत्यर्थः । तुशब्दोऽवधारणे । संशेषे इति । संपूर्वात् ‘शीङ खप्ने' १८ अस्मात्कर्तरि लट् । इति पूर्वपक्षः ॥ ३५ ॥
श्रुत्वेति भगवद्वाचो गौतमोऽन्तश्चमत्कृतः ।
अहो! सर्वज्ञ एषोऽस्तु दध्याविति विशुद्धधीः ॥३६॥ इतीत्थं भगवतो वीरजिनस्य वाचो वाण्यस्ताः श्रुत्वा निशम्य २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org