________________
१५२
श्रीगौतमीयकाव्यं
अनन्तसौख्यमिति भोक्ता परमानन्दसंपन्नस्तथा पुनश्चिद् ज्ञानमेव रूपं खरूपं यस्य स चिद्रूपोऽनन्तज्ञानमयस्तथाभूतः पुरुष आत्मा स्मृतः ३ कथितः । एतेन 'अस्ति पुरुषोऽकर्ता निर्गुणो भोक्ता चिद्रूप' इत्यादिकापिलागमेऽपि जीवास्तित्वमेव प्रतिपाद्यते इत्यर्थः । एवं प्रागुक्तप्रकारेण यतो हेतोः आगमा आप्तोक्तयो विरुद्धो योऽसौ अर्थ६वादोऽर्थकथनं तेन निबद्धा ग्रथिताः सन्ति, तस्मादागमानां परस्परविरुद्धत्वान्नागमप्रमाणादप्यात्मसत्त्वसिद्धिरिति भावः ॥ ३२ ॥ उपमाप्रमाणगम्योऽप्यसौ न भवतीत्याह
आत्मसादृश्यमाबिभ्रत् प्रत्यक्षं न हि वस्तु तत् ।
यस्योपमाप्रमाणेन साधनीयोऽसुमान् भवेत् ॥ ३३ ॥ . आत्मनो जीवस्य सादृश्यं तुल्यत्वमाबिभ्रत् दधानं तत् प्रत्यक्षं १२ प्रत्यक्षज्ञानविषयं वस्तु पदार्थो न हि अस्ति-यस्य वस्तुन उपमा
प्रमाणेन सादृश्यप्रमाणेन असुमान् जीवः साधनीयो भवेत् साध्यः स्यात् । इदमत्र तात्पर्यम्-उपमाप्रमाणमप्यस्य साधकं नास्ति, तत्र हि १५ गोसदृशो गवय इत्यादाविव सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति ।
न चेहान्यः कश्चित्रिभुवनेऽप्यात्मसदृशः पदार्थोऽस्ति, यदर्शनादात्मानमवगच्छामः । ननु काला-ऽऽकाश-दिगाऽऽदयो जीवतुल्या विद्यन्ते १८इति चेत् । न । तेषामपि विवादाऽऽस्पदीभूतत्वेन तदंहिबद्धत्वादिति।
आबिभ्रदिति । आपूर्वाद्धृजः कर्तरि लटः शतृ । असुमानिति । असवः प्राणाः सन्त्यस्येति असुमान् 'जीवः स्यादसुमान् सत्त्व मिति
हैमः ॥ ३३ ॥ २७ अर्थापत्तिसाध्योऽपि जीवो न भवतीत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org