________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
अस्तित्वमपि जीवस्य संभवेद्वेदवाक्यतः । तथा हि जुहुयादग्निहोत्रं स्वर्गस्य कामुकः ॥ ३० ॥
१५१
वेदवाक्यतः श्रुतिवाक्यात् जीवस्य अस्तित्वं सद्भावोऽपि संभ- ३ वेत् । कथमित्याह - तथाहीति । तदेव दर्शयति-- 'स्वर्गस्य कामुकोऽभिलाषुको जनोऽग्निहोत्रं क्रियाविशेषं जुहुयात् यजेत' इति । अस्माद्वेदवाक्यात् जीवास्तित्वं संभवति, यतो जीवस्य सद्भावं विना ६ स्वर्गप्राप्तिः कस्य भवेदिति भावः । जुहुयादिति । 'हु दानादौ ' अस्मात्कर्त्तरि लिङ् ॥ ३० ॥
अशरीरं वसन्तं वा स्पृशतो न प्रियाऽप्रिये । प्रियाऽप्रियपरित्यागः सशरीरस्य नास्ति हि ॥ ३१ ॥
तथा प्रियं चाप्रियं च प्रियाऽप्रिये रागद्वेषौ, नास्ति शरीरं यस्य सोऽशरीरो निरुपाधिक आत्मा तं तथाभूतं वसन्तं तिष्ठन्तं प्रति न १२ स्पृशतो न स्पर्श कुरुत: । हीति निश्चये, सह शरीरेण वर्त्तते इति सशरीरः, सकर्मक आत्मा तस्य प्रियाऽप्रिययो राग-द्वेषयोः परित्यागो निर्मुक्तिर्नास्ति । वाशब्दः पादपूरणे । एतावता 'न ह वै १५ सशरीरस्य प्रियाप्रिययोरपहतिरस्त्यशरीरं वा वसन्तं प्रियाप्रिये न स्पृशत ' इति वेदवाक्यमपि आत्मनोऽस्तित्वप्रतिपादकमेव, अन्यथाSशरीरत्वेनावस्थानासंभवादिति भावः ॥ ३१ ॥
96
अकर्त्ता निर्गुणो भोक्ता चिद्रूपः पुरुषः स्मृतः । एवं विरुद्धार्थवादनिबद्धा आगमा यतः ॥ ३२ ॥ तथा करोतीति कर्त्ता न कर्त्ता अकर्त्ताऽक्रियाकारकः तथा निर्णेता गुणा रागादयो यस्मात् स निर्गुणो रागादिवर्जितस्तथा भुनक्ति बर
Jain Education International For Private & Personal Use Only www.jainelibrary.org