________________
१५०
श्रीगौतमीयकाव्यं
(२३८) इत्यादिना द्वितीया, संज्ञेति 'गोत्रसंज्ञा नामधेयाss ख्याऽऽहाऽभिख्याश्च नाम चेति हैमः ॥ २८ ॥ __ शून्यतामेव मन्वानाः सौगताः शून्यवादिनः ।
क्षणिकत्वात्सतोऽप्यन्ये बौद्धा जीवं न मन्यते ॥ २९॥ तथा सुगतो बुद्धो देवता एषामिति सौगता बौद्धदर्शनिनो मुनयः ६ शून्यतां शून्यत्वमेव मन्वानाः स्वीकुर्वाणाः सन्तः शून्यं निराकार वदन्तीति शून्यवादिनः, विद्यन्ते इति शेषः । ते हि सर्व शून्यमेवास्ति, न तु किमपि तात्त्विकमिति खहृदि श्रद्दधानाः सन्त एतदेव ९ जनानां पुरः प्ररूपयन्तीति भावः । अथान्ये केचित् बौद्धा बौद्धमतैकदेशिनो विद्वांसः सतोऽपि विद्यमानस्यापि वस्तुनः क्षणिकत्वात्
क्षणमात्रावस्थायित्वात् जीवमात्मानं न मन्वते न स्वीकुर्वन्ति । ते हि १२ यत् सत् तत् क्षणिकम्' इति व्याप्तिमङ्गीकृत्य सतोऽपि जीवस्य क्षणि
कत्वान्नास्तित्वमेव प्रतिपद्यन्ते इत्यर्थः । मन्वाना इति । 'मन ज्ञाने'
तानादिकादस्माकर्तरि लटः शानच् । सौगता इति । 'साऽस्य १५ देवता' (४।२।२४) इत्यण् । 'सर्वज्ञः सुगतो बुद्ध' इत्यमरः । 'शून्यवादी तु सौगत' इति हैमः । क्षणिकेति । क्षणिकस्य भावः
क्षणिकत्वं तस्मात् , 'द्वितीयक्षणेवृत्तिध्वंसप्रतियोगित्वं' क्षणिकत्वमिति १८ तल्लक्षणम् । मन्वत इति । तानादिकान्मने कर्तरि लट् ॥ २९ ॥
१ एक एव बुद्ध उपदेष्टा परन्तु तस्य शिष्याश्चतुर्विधा भिन्नमतय आसन् । तेषु माध्यमिकानुयायिनः सर्वशून्यतावादिनः सर्व क्षणिकं मन्यते। २ वस्तूत्पत्तिद्वितीयक्षणे वृत्तिर्यस्य एवंविधो यो ध्वंसो-नाशः तस्य प्रतियोगिता
तद्वखुनि, खस्याभावस्य प्रतियोगी खः । तन्मते प्रथमक्षणे वस्तुन उत्पत्ति...र्दितीयक्षणे, तस्य नाशः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org