________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १४९
जीव - नास्तित्वलक्षण एवं संभाव्यते विचिन्त्यते, मयेति शेषः । कथमेतत् ज्ञायते इत्यत आह- तथा हीति । निदर्शनेऽव्ययमिदं, तदेव दर्शयतीत्यर्थः, एष प्रत्यक्षविलोक्यमानो विज्ञानधनः पृथि• ३ व्यादिभूतानां विज्ञानलवसमुदायः पृथिव्यादिविज्ञानांशानां पिण्डरूप आत्मेत्यर्थः । भू-जला - ऽनल- वायुतः समुदितेभ्यः पृथिव्यप्तेजोवाय्वाकाशेभ्यो न तु व्यस्तेभ्यो ज्ञानस्य तत्समुदाय परिणामाङ्गी-६ कारादिति भावः । मद्यकारणेषु धातक्यादिषु मदभाव इव उत्पद्य प्रादुर्भूय, न तु परभवादागत्य ततस्तान्येव पृथिव्यादीनि भूतानि विनाशमनुवानानि अनुलक्षीकृत्य स विज्ञानमात्ररूप आत्मा विनश्यति ९ प्रलयं याति । नत्वात्मवादिनामिवान्यभवं प्रयाति, अत एव । प्रेत्येति । अस्य कोऽर्थः ? परलोके लोकान्तरेऽस्यात्मनः कापि संज्ञाऽभिख्या न लभ्यते न प्राप्यते, यत्पूर्वभवे नरकादिजन्मनि १२ अभिधानमासीत्, तत्परभवे नास्ति, यदुताऽमुको नारको देवो भूत्वा इदानीं मनुष्यः संवृत्त इत्यादि । नारकादेः प्रागेव सर्वनाशं नष्टत्वादिति भावः । एतेन सर्वथाऽऽत्मनः समुत्पद्य विनष्टत्वान्न भवाद्भवा- १५ न्तरं कोऽपि यातीति तात्पर्यवृत्त्या निवेदितं, मूले विज्ञानघन एवेति वाक्यैकदेशः समग्रवाक्योपलक्षको ज्ञेयः । संभाव्यते इति । संपूर्वाण्णिजन्ताद्भवतेः कर्मणि लट् । भूजलेत्यादि । भूश्च जलं १८ चानलश्च वायुश्च एषां समाहारो भूजलानलवायु तस्मात् समाहारद्वन्द्वविधानात्समुदितानामेवैतेषां ग्रहणं, न तु व्यस्तानामिति भावः । इहाकाशपदमनुक्तमपि संग्राह्यं, 'पञ्चभूतमयो ह्यात्मा' इत्यादितच्छास्त्रोक्त - २१ त्वात् । तानीति । 'लक्षणेत्थंभूत - ' (१।४।९० ) इत्यादिनाऽनोः ( अनु उपसर्गस्य ) कर्मप्रवचनीयसंज्ञत्वात्, तद्योगे 'कर्मप्रव - ' २३
2
10%
Jain Education International For Private & Personal Use Only www.jainelibrary.org