________________
श्री गौतमीयकाव्यं
परस्परविरोधिन्यागमानामपि भारती । बृहस्पतिर्हि भूतातिरिक्तं जीवं न मन्यते ॥ २६ ॥ किंच, आगमानामपि भारती आगमसम्बन्धिनी अपि वाणी परस्पर विरोधिनी अन्योन्यविरुद्धा विद्यते । एतावता तीर्थिकानां सम्बन्धिनः सर्वेऽप्यागमाः परस्परविरोधिनः खलु, अतोऽपि संशय एवात्मनो ६ युक्तो न तु निश्चय इति भावः । अथ केषांचिदागमानामात्मनो नास्तित्वप्रतिपादनेन, केषांचिच्च अस्तित्वप्रतिपादनेन यथा विरोधतद्भाव तथा सार्द्धषट्श्लोकैरुपदर्शयति । बृहस्पतिरित्यादि । हि यतो बृह ९स्पतिर्बृहस्पतिनामा नास्तिकमतप्रवर्त्तक ऋषिः भूतेभ्यः पृथिव्यप्तेजोवाय्वाकाशलक्षणेभ्यः पञ्चभ्योऽतिरिक्तं पृथग्भूतं जीवमात्मानं न मन्यते नाङ्गीकरोति । यत् खलु भूतपञ्चकं तदेवात्मा न तु ततोऽन्य इति १२ मन्यते इत्यर्थः । तथा च तदागमः -- एतावानेव लोकोऽयं यावा - निन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद्वद [न्तिं ]न्त्यबहुश्रुताः' ( षड्दर्शनसमुच्चय लो० ८१ ) || इत्यादि । मन्यते इति । 'मन ज्ञाने' १५ दिवादिरस्मात्कर्त्तरि लट् ॥ २६ ॥ विज्ञानघन एवेति वेदवाक्याशयोऽप्ययम् । संभाव्यते तथा ह्येष भू-जला - ऽनल- वायुतः ॥ २७ ॥ १८ विज्ञानघन उत्पद्य तान्येवानुविनश्यति । प्रेत्येति परलोकेsस्य कापि संज्ञा न लभ्यते ॥ २८ ॥ - युग्मम् । "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न २१ च प्रेत्यसंज्ञाऽस्ती”त्येवंभूतं यद्वेदवाक्यं तस्याऽऽशयोऽभिप्रायेोऽपि अ
३
१४८
१ नास्तित्वप्रतिपादनेन जीवविरोधः, अस्तित्वप्रतिपादनेन जीवभाव इत्यर्थः । २ मुद्रित अयमेतद्रूपः पाठः, स च चिन्त्यः ।
Jain Education International For Private & Personal Use Only www.jainelibrary.org