________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
१४७
नीवोsपि सिध्यती 'ति तु न वक्तव्यं, यतो हन्त देवदत्ते दृष्टान्तधर्मिणि सामान्येन देशान्तरप्राप्तिं गतिपूर्विकां प्रत्यक्षेणैव निश्चित्य सूर्येऽपि तां तथैव प्रमाता साधयतीति युक्तं, न चैवमत्र कचिदपि दृष्टान्ते जीव-३ सद्भावेनाविनाभूतः कोऽपि हेतुः प्रत्यक्षेणोपलक्ष्यते इति, अतो न सामान्यतो दृष्टादप्यनुमानात्तत्सिद्धिरिति । संसाधयेदिति । 'साध संसिद्धौ' संपूर्वात् णिजन्तादस्मा लिइ । अनुमित्सिते इति । अनुपूर्वा - ६ न्सन्नन्तान्माङः कर्मणि क्तः । स्थानान्तरेत्यादि । अन्यत् स्थानं स्थानान्तरं, मयूरव्यंसकादित्वात्समासः । मयूरव्यंसकादयश्च ( २/१/७२ ) ] एवमन्यो देशो देशान्तरमित्यपि बोध्यम् । अनुमानयेदिति । अनु- ९ मानशब्दात् 'तत्करोति' (ग०) इत्यर्थे णिच्, ततो लिङ्ग ॥२२-२४॥ न चागमगम्योsपि जीव इति दर्शयति-
स्यादागमोऽप्यदृष्टार्थविषयो ह्याप्तनिर्णयात् । प्रमाणं, कः स चात्राssसः प्रत्यक्षं योऽमुमीक्षते १ ॥ २५ ॥
१२
हीति निश्चये, अदृष्टः साक्षादनुपलब्धो योऽर्थः स्वर्गनारकादिपदार्थः स विषयो गोचरो यस्य स तथाभूत आगमोऽपि १५ शब्दोऽपि प्रमाणं स्यात् । कुत इत्याह- आप्तेत्यादि । आप्तो यथार्थवक्ता, तस्य निर्णयो निश्चयस्तस्मात् आप्तेन निर्णीतत्वात् । यद्येवं तर्हि अनेनैव जीवोऽपि सिध्यतीत्याशङ्कयाह - क इत्यादि । १८ यद्यप्येवं तथापि यो मुमात्मानं प्रत्यक्षं साक्षाद्रूपमीक्षते पश्यति स चाऽत्र अस्मिन् लोके आप्तः कोऽस्ति ? न कोऽपीत्यर्थः । एतावता न एवंभूतमाप्तं कमपि पश्यामो यस्याऽऽत्मा प्रत्यक्ष इति । तद्वचन इति । तद्वचनमागम इति प्रतिपद्येमहीति भावः ॥ २५ ॥
१ नियतसहचारी इत्यर्थः ।
Jain Education International For Private & Personal Use Only
२२
www.jainelibrary.org