________________
श्रीगौतमीयकाव्यं
सामान्यतोऽपरत्रापि यद्वा व्याप्त्या गृहीतया। संसाधयेदनुमिति कापि स्थानेऽनुमित्सिते ॥ २२ ॥ ३ यथा स्थानान्तरप्राप्तिं पुंसो गत्याऽवलोक्य च । रवेर्देशान्तरप्राप्त्या गतिं लोकोऽनुमानयेत् ॥ २३ ॥ तथा सामान्यतो व्याप्तिं जीव-चैतन्ययोः पुरा । गृहीता केन?, तसान्नाऽनुमानं त्वस्य साधकम् ॥ २४ ॥
त्रिभिः संबन्धः। यद्वाऽथवा सामान्यतःसामान्येन अपरत्रापि अनुमित्सितादन्यत्रापि ९आपाततो गृहीतया व्याप्त्या साध्यसाधनयोर्नियतसाहचर्यलक्षणया क्वापि
कस्मिन्नपि अनुमित्सितेऽनुमातुमिष्टे स्थानेऽनुमिति संसाधयेत् अनुमितेः सिद्धिं कुर्यात् , जन इति शेषः । कथमित्याह-यथेत्यादि। १२ यथा लोको जनः पुंसो गत्या गमनेन पुरुषस्य स्थानान्तरप्राप्तिं विविक्षितस्थानादितरस्थानप्राप्तिमवलोक्य दृष्ट्वा, देशान्तरप्राप्त्या अपरस्थान
प्राप्त्या रवेः सूर्यस्य गतिं गमनमनुमानयेत् । रवेगतिमत्तासाधकमनुमानं १५कुर्यादित्यर्थः । 'नन्वेवं जीवस्यापि सिद्धिर्भविष्यति' इत्यत आहतथेत्यादि । तथा तेन प्रकारेण पुरा पूर्व सामान्यतो जीवचेतनयोलिङ्गिलिङ्गयोाप्तिः केन दृष्टान्तेन गृहीता?, न केनापीत्यर्थः । १८ तस्माद्धेतोरनुमानमनुमानाख्यं प्रमाणं तु अस्य जीवस्य साधकं नास्ति ।
अनेन प्रमाणेन तु जीवसिद्धिर्न स्यादित्यर्थः । इदमत्र तात्पर्यम्-'यथा गतिमान् आदित्यो देशान्तरप्राप्तेदेवदत्तवदिति सामान्यतो दृष्टादनु२१मानादाऽऽदित्यगतिः सिध्यति-'तथा सामान्यतो दृष्टादेवानुमाना. १ यत्राऽप्रत्यक्ष लिङ्गलिङ्गिनोः सम्बन्धे, केनचिदर्थेन लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यते तत् सामान्यतो दृष्टमनुमानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org