________________
गौतमीयप्रकाशाख्यटीकया सहितम् । माङः 'अचो यत्' (३।१।९७ ) इति यत् । 'ईद्यति' (६।४।६५) इति ईकारे गुणः । तस्य भावस्तत्ता ॥ २० ॥ धूमाम्योरपि सम्बन्धो गृहीतो हि महानसे । पश्चात्स्मरणतः शैले धूमोऽग्निं प्रतिपादयेत् ॥ २१ ॥ . __हीति निश्चये, धूमश्चाऽग्निश्च धूमामी, तयोर्धूमवयोरपि लिङ्गलिङ्गिनोः सम्बन्धः कार्यकारणभावादिकः संसर्गो येन केनापि नरेण ६ यदा पूर्व महानसे पाकस्थाने गृहीतः साक्षात्कारेणोपात्तो भवेत् तदेव तं नरं प्रति पश्चात् कदापि स्मरणतः प्राग्गृहीतसम्बन्धस्मरणात् शैले पर्वते धूमोऽग्निं प्रतिपादयेत् ज्ञापयेत् , अग्नेः प्रतिपत्तिं कुर्यादि-९ त्यर्थः । इदमत्र तात्पर्यम्-पूर्वं यत्र धूमस्तत्र वह्निरिति महानसादौ वह्निधूमयोलिङ्गिलिङ्गयोर्व्याप्तिं गृहीत्वा तत उत्तरकालं कचित्पर्वतादौ गगनावलम्बिनीं धूमलेखामवलोक्य प्राग्गृहीतं सम्बन्धमनुस्मरति, १२ तद्यथा---'यत्र यत्र धूमस्तत्र तत्र प्रागहं वह्निमद्राक्षं, यथा महानसादौ, धूमश्चात्र दृश्यते, तस्माद्वह्निनाऽपीह भवितव्यम्' इत्येवं लिङ्गग्रहणसम्बन्धस्मरणाभ्यां तत्र प्रमाता वह्निमवगच्छति, न चैवमात्मनो लिङ्गि- १५ नश्चेतनया लिङ्गेन साई प्रत्यक्षेण सम्बन्धः सिद्धोऽस्ति, यतस्तत्सम्बन्धमनुस्मरतः पुनस्तल्लिङ्गदर्शनाजीवे संप्रत्ययः स्यात् , किंच यदि पुनर्जीवलिङ्गयोः प्रत्यक्षरूपा सम्बन्धसिद्धिः स्यात्तदा जीवस्यापि प्रत्यक्ष-१४ त्वापत्त्याऽनुमानवैयर्थं स्यात्तत एव तत्सिद्धेरिति । एतेन अस्तु वेति धूमाम्योरिति च श्लोकद्वयं सममेव भावितं । महानस इति । 'पाकस्थानं महानस'मिति हैमः। प्रतिपादयेदिति । 'पद गतौ' । प्रतिपूर्वः हेतुमण्णिजन्तादस्माल्लिङ् ॥ २१ ॥ १ प्रतिपत्ति ज्ञानमित्यर्थः। ...
१० गौ० का०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org