________________
१४४
श्रीगौतमीयकाव्यं
कृशानोर्वहेर्द्धमवत् अस्यात्मनो लिङ्गं चिहं किमपि न लभ्यते न प्राप्यते, यथा वहेश्चिहं धूमः साक्षाल्लभ्यते तथाऽस्य किमपि नेत्यर्थः। ३ ननु लिङ्गस्य किं प्रयोजनमित्यत आह-यदित्यादि । यस्य लिङ्गस्य सम्बन्धेन लिङ्गिना सार्द्ध सम्बन्धस्मरणेन अदृष्टोऽपि अनवलोकितो. ऽपि अयं जीवोऽनुमीयते अनुमानगोचरः क्रियते, तादृशं लिङ्ग ६ किमपि न लभ्यते इत्यर्थः । कृशानोरिति । 'कृशानुः पावकोऽनल इत्यमरः । लिङ्गमिति । 'लिङ्ग्यते गम्यतेऽतीन्द्रियार्थोऽनेन' इति लिङ्गम् । अनुमीयते इति । अनुपूर्वान्माङः कर्मणि लट् ॥ १९ ॥ ९अस्तु वा चेतना लिङ्ग सम्बन्धस्त्वनयाऽस्य च । प्रत्यक्षो नेक्षितः कापि प्राक् ततः काऽनुमेयता? ॥२०॥
वाऽथवा चेतना चैतन्यस्वरूपं लिङ्गं चिह्नमस्तु । आत्मानुमिता१२ विति शेषः । परं अस्यात्मनोऽनया चेतनया सह प्रत्यक्षः साक्षाद्भूतः
सम्बन्धः संसर्गस्तु प्राक् पूर्व क्वापि कुत्रापि प्रदेशे नेक्षितो न दृष्ट. स्ततस्तस्मात्कारणादस्य काऽनुमेयता किमनुमेयत्वम् ? अनुमानविषय. १५त्वमिति यावत् । प्रत्यक्षपूर्वकं हि अनुमान प्रवर्तते इति भावः ।
अनयेति । सहार्थस्य गम्यमानत्वात् । 'सहयुक्ते-' (२।३।१९) इति
तृतीया, अस्य चेत्यत्र चः पादपूरणे । प्रत्यक्ष इति । प्रत्यक्षं ज्ञानमस्ति १८ अस्येति मतुबर्थेऽर्शआद्यच् । ईक्षित इति । 'ईक्ष दर्शनादौ' कर्मणि
क्तः। अनुमेयतेति । अनुमातुं योग्योऽनुमीयतेऽसाविति वाऽनुमेयः।
१ जीवसाधकहेतोः। २ लिङ्गिना जीवेन । ३ अनु-हेतुग्रहणसम्बन्ध. स्मरणयोः पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनेनेत्यनुमानम् , ग्रहणञ्चात्र हेतुसाध्ययोः सम्बन्धस्य, तच्च ग्रहणं प्रत्यक्षात्मकम् , तेन सर्वत्र तयोर्लिङ्गलिङ्गिभावोऽ. नुमीयते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org