________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १४३ इन्द्रियेण ग्राह्य इन्द्रियग्राह्यः तस्य भाव इन्द्रियग्राह्यता, तस्या अभाव इन्द्रियग्राह्यताऽभावस्तस्मात् चक्षुरादीन्द्रियग्राह्यत्वाऽभावादेष आत्मा प्रत्यक्षेण प्रत्यक्षाभिधानेन प्रमाणेन ग्रहीतुं ज्ञातुं न शक्यते, तस्माद्धेतोः ३ खपुष्पवदाकाशकुसुमवदसावात्मा नास्ति, एतावता चक्षुरादीन्द्रियमेव प्रत्यक्षप्रमाणमुच्यते, तेन च योऽग्राह्यः स नास्ति, यथा खपुष्पं तथाऽसावपीति । अयमत्र प्रयोग:-~~-नास्त्यात्मा प्रत्यक्षेणात्यन्तमगृह्य- ६ माणत्वात् , इह यदत्यन्ताप्रत्यक्षं तल्लोके नास्त्येव, यथा खपुष्पं यच्चास्ति तत् प्रत्यक्षेण गृह्यते एव, यथा घट इत्यसौ व्यतिरेकदृष्टान्तः । अणवोऽपि ह्यप्रत्यक्षाः, किंतु घटादिकार्यतया परिणताः९ सन्तस्ते प्रत्यक्षत्वमुपयान्ति, न पुनरेवमात्मा कदाचिदपि प्रत्यक्षभावमुपगच्छति, अतोऽत्रात्यन्तविशेषणमिति सूत्रेऽपि इन्द्रियग्राह्यताभावादित्यतः प्राक् अत्यन्तमिति पदमनुक्तमपि वाच्यम् । प्रत्य- १२ क्षेणेति । अक्षि अक्षि प्रति प्रत्यक्षं वीप्सायां यथार्थत्वेन समासः । यद्वाऽक्ष्णामाभिमुख्यमित्यर्थे लक्षणेन 'अभिप्रति-' (१।३।८०) इति समासः । 'प्रतिपरसमनुभ्यऽक्ष्णः' (सिद्धांतको०) इति समा- १५ सान्तष्टच् । वृत्तिविषयेऽक्षिशब्द इन्द्रियमात्रपरः न तु चक्षुर्मात्रपरः । प्रत्यक्षलक्षणं तु अग्रे मूले एव वक्ष्यति । प्रमाणेनेति । 'प्रमाकरणं प्रमाण मिति तल्लक्षणं, प्रमा यथार्थज्ञानं । प्रपूर्वान्माङः करणे ल्युट् । १४ ग्राह्येति । ग्रहेरहेऽर्थे ण्यत् ॥ १८ ॥ एवं च मन्यसे त्वं किमित्याहकृशानोझूमवल्लिङ्गं किमप्यस्य न लभ्यते । यत्सम्बन्धेन जीवोऽयमदृष्टोऽप्यनुमीयते ॥ १९ ॥ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org