________________
१४२
श्री गौतमीयकाव्यं
1
यति - यत् यस्मात् कारणात् तिमिरामयात् काचकामलरोगात् शङ्खकम्बुर्विरुद्धवर्णैवक्ष्यते विलोक्यते, नरेणेति शेषः । एतावता यस्य ३ नेत्रयोस्तिमिररोगोत्पत्तिर्जायते स नरः श्वेतवर्णमपि शङ्कं विरुद्वैः पीतादिवर्णैः पश्यतीत्यर्थः । मोहादिति । 'मोहो मूर्च्छाविपर्यया' विति हैमः (अनेकार्थः) । विपर्ययो विपरीतज्ञानमित्यर्थः । वीक्ष्यते इति । ६ विपूर्वादीक्षतेः कर्मणि लट् । तिमिरेत्यादि । तिमिरं चासावामयश्च तिमिरामयस्तस्मात् हेतौ पञ्चमी । 'तिमिरं तु दृष्टिरोगान्धकारयो' रित्य नेकार्थः । 'स्त्री रुग् रुजा चोपतापरोगव्याधिगदामया' इत्यमरः ॥ १६ ॥ अथ वीरस्तावत्तदीयखान्तगतं संशयं प्रकटयतीत्याह - तावदात्मनि सन्देहस्तव चेतसि वर्त्तते ।
जीवः किमस्ति वा नास्ति मुहुर्विमृशसीति यत् ॥ १७॥ हे गौतम! तावत्प्रथमं तव चेतसि त्वदीये मनसि आत्मनि सन्देहो जीवविषयकः संशयो वर्त्तते विद्यते । कथमित्याह — जीव इत्यादि । यद्यस्माद्धेतोः किं जीव आत्माऽस्ति विद्यते ? वाऽथवा १५ नास्ति न विद्यते इत्येवं मुहुर्वारं वारं त्वं विमृशसि विचारयसि, ततोऽस्माभिर्ज्ञायते ते हृदि आत्मविषयकः सन्देहोऽस्तीत्यर्थः । विमृशसीति । 'मृश आमर्शने' कर्त्तरि लट् ॥ १७ ॥
९
१२
१८
नन्वयं केन हेतुना जीवस्य नास्तित्वं चिन्तयति : केन चास्तित्वम् इत्याशङ्क्य तावन्नास्तित्वे हेतूनाह
प्रत्यक्षेण प्रमाणेन ग्रहीतुं नैष शक्यते । इन्द्रियग्राह्यताऽभावात्तस्मान्नास्ति खपुष्पवत् ॥ १८ ॥
२२ इन्द्रस्याऽऽत्मनो लिङ्गं चिह्नमिन्द्रियं चक्षुरादि, ग्रहीतुं योग्यो ग्राह्यः,
Jain Education International For Private & Personal Use Only www.jainelibrary.org