________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १४१ संशयेत्यादि । संशयं छिनत्तीत्येवंशीलः संशयच्छेदी, छिदेणिनिः । प्रतीहीति । प्रतिपूर्वात् 'इण् गतौ' इत्यस्माल्लोट् । अवधारयेति । 'धृञ् धारणे अवपूर्वादस्माणिच् ॥ १४ ॥
त्वमापृच्छख वा मा वा वेभि ते संशयानपि ।
परस्परविरुद्धार्थवेदवाक्यसमुद्भवान् ॥ १५॥ पुनरपि प्रभुर्वक्ति-हे गौतम ! त्वमापृच्छख प्रश्नं कुरु वा मा वाम प्रच्छख मा प्रश्नं कुरु वा अहं परस्परेण विरुद्धोऽर्थो येषां तानि तथाविधानि यानि वेदवाक्यानि तेभ्यः समुद्भव उत्पत्तिर्येषां ते तान् ते तव संशयान् सन्देहानपि वेनि जानामि वेदवाक्यानामन्योन्याविरुद्ध-९ मप्यर्थ भ्रमाद् विरुद्धत्वेनाशङ्कमानस्य ते हृदि संशयाः समुत्पन्नाः सन्ति तानप्यहं जाने, त्वं निजेच्छया प्रश्नं कुरु मा कुरु वेति भावः । आपृच्छखेति । प्रच्छेः कर्तरि लोट् । 'ननु 'प्रच्छ ज्ञीप्सायाम्' इत्यस्य १२ परस्मैपदित्वात्कथमत्रात्मनेपदप्रयोगः? इति चेत्'-उच्यते-पदव्यवस्थायाम् 'आङि नुप्रच्छयोः' (वा० ) इति सूत्रेणापूर्वोत् प्रच्छेरात्मनेपदविधानान्न दोषः ॥ १५॥
अविरुद्धोऽपि मोहात्ते विरुद्धोऽर्थोऽवभासते ।
शङ्खो विरुद्धवर्णैर्यद्वीक्ष्यते तिमिरामयात् ॥ १६ ॥ अर्थसंबन्धाद्वेदवाक्यपदमध्याहार्य; ततोऽयमर्थः-हे गौतम ! १८ वेदवाक्यानामविरुद्धोऽपि विरोधरहितोऽपि अर्थों मोहादज्ञानात्ते तव विरोधवान् अवभासते प्रतिभाति । एतदेवार्थान्तरन्यासेन द्रढ-२०
१५
१ अत्र 'वेदवाक्ये समुद्भवान्' इति काशीमुद्रितपाठोऽसमजसः। २ अत्र 'शतो विरुद्धवर्णो' इति काशीमुद्रितपाठः स च टीकाकृतामसम्मतः प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org