________________
१४०
श्रीगौतमीयकाव्यं
इत्येवं विमृशत्यस्मिन् भगवान् पुनरब्रवीत् ।
मयि सर्वज्ञतायां त्वं माधा गौतम ! संशयम् ॥ १३ ॥ ३ अस्मिन् गौतमे इत्येवं प्रागुक्तप्रकारेण विमृशति विचारयति सति भगवान् सर्वज्ञो वीरप्रभुः पुनः अब्रवीत् पुनरपि कथयामास । किमब्रवीदित्याह - हे गौतम ! मयि मद्विषये सर्वज्ञतायां सर्वज्ञत्वे त्वं ६ संशयं सन्देहं मा धाः मा धारय, मा प्राप्नुहीति यावत् । विमृशति 'मृश आमर्शने' विपूर्वादस्मात्कर्त्तरि लटः शतृ । अब्रवीदिति । ब्रूञः कर्त्तरि लङ् । माधा इति । 'दुधाञ् धारणादौ' माङि उप९ पदेऽस्मात् ' माङि लुङ् ( ३।३।१७५ ) इति लुङ् ॥ १३ ॥ ननु कथं सर्वज्ञत्वप्रत्ययो मे स्यादित्याशङ्कयाह - यदहं संशयच्छेदी सर्वज्ञं मां प्रतीहि तत् । अन्यथाऽनुपपत्त्येवार्थापत्तिमवधारय ॥ १४ ॥
हे गौतम ! यद्यस्मात्कारणादहं संशयच्छेदी सन्देहभेदकोऽस्मि, तत्तस्माद्धेतोर्मां त्वं सर्वज्ञं प्रतीहि जानीहि । एतदेवोपपादयति१५ अन्यथाऽन्येन प्रकारेणानुपपत्त्यैव उपपत्तेरभावेनैव त्वं अर्थापत्तिमर्थस्य प्राप्तिमवधारय विचारय । इदमत्र तात्पर्यम् -- यतः सर्वज्ञ - त्वाभावे संशयोच्छेदकत्वानुपपत्तिः स्यात्, तत एव संशयोच्छेदकत्वेन १८ सर्वज्ञत्वमायातमित्यवधारय । एतेनार्थापत्तिप्रमाणमुक्तमथ तत्खरूपं स्पष्टतया दर्श्यते, यथा 'पीनो देवदत्तो दिवा न भुङ्क्ते' इति दृष्टे श्रुते वा पीनत्वाऽन्यथानुपपत्त्या रात्रिभोजनमर्थापत्त्या कल्प्यते २१ तथाऽत्रापि सकलजनमनोगतसंशयच्छेदी वीरजिनः कमपि कर्णमूलमागत्य चिन्तितार्थनिवेदकं देवं नाराधयतीत्यत्र सकलजनमनोगत२३ संशयच्छेदित्वाऽन्यथानुपपत्त्या सर्वज्ञत्वमर्थापत्त्या समायातमिति ।
१२
Jain Education International
--
For Private & Personal Use Only www.jainelibrary.org