________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १३९ मित्यर्थः, स्वर्वासिनां सान्निध्यं स्वर्वासिसान्निध्यं तस्मात् हेतौ पञ्चमी । येति । या-शब्दसंबन्धादनुक्तोऽपि सा इति शब्दोऽध्याहार्यः । परेत्यादि । परं च तद्ब्रह्म च परब्रह्म, तत्र निष्ठिता । परशब्दः परान-३ धीनैश्वर्यवद्वचनः ॥ १० ॥
सर्वज्ञताप्रतीतिर्वा न वाक्येनाऽमुना भवेत् ।
नामानि तु समाख्याति पिशाचीसाधको यतः॥११॥६ वाऽथवा अमुनाऽनेन प्रागुक्तेन वाक्येन सर्वज्ञतायाः सर्वज्ञत्वस्य प्रतीतिः प्रत्ययो न भवेत् । कथमित्याह-यतो यस्मात्कारणात् नामानि तु अभिधानानि तु पिशाचीसाधकोऽपि जनः समाख्याति कथयति,९ एतावता एतन्नामोक्तिमात्रज्ञानेनाऽस्य सर्वज्ञत्वं न प्रत्येमीति भावः । पिशाचीत्यादि । पिशाचो देवविशेषः, तदधिष्ठिता विद्या पिशाचीत्युच्यते, तस्याः साधको जापादिना निष्पादक इत्यर्थः ॥ ११ ॥ १२
वर्णचूडामणिग्रन्थाऽऽनाताऽपि च तथा वदेत् ।
खरशास्त्रप्रवीणोऽपि तथा तुम्बरुचक्रवित् ॥ १२ ॥ च पुनः वर्णचूडामणि म यो ग्रन्थः शास्त्रं तस्याम्नाता अभ्यास-१५ कारकोऽपि जनस्तथा तेन प्रकारेण वदेत् कथयेत् यथाऽनेन मदीयं नाम प्रोक्तं, तथा सोऽपि नामान्यभिधत्ते इत्यर्थः । तथा खरशास्त्रे खरसाधनग्रन्थे प्रवीणोऽपि निपुणोऽपि जनस्तथा वदेत् तथा पुन-१४ स्तुम्बरुचक्र ग्रन्थविशेषं वेत्तीति तुम्बरुचक्रवित् सोऽपि तथा वदेत् । एतावता सर्वज्ञत्वं विनैव एतेषां शास्त्राणां बलादपि अज्ञातस्य नामाभिधानं संभवतीति भावः । आनातेति । 'ना अभ्यासे' आइपूर्वादस्माकर्तरि तृच् ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org