________________
१३८
श्रीगौतमीयकाव्यं
त्यर्थः । अभिधत्ते इति । अभिपूर्वो धाञ् कथनार्थः, अस्मात्कर्तरि लट् । ग्राहयेदिति । हेतुमण्णिजन्ताद्लातेर्लिङ् ॥ ८ ॥ ३ प्रत्यक्षीकृतमैश्वर्यं प्रागेव गृहनिर्गमात् ।
सर्वज्ञताऽप्यनेनाऽस्य वाक्येनाऽऽविरभूत्पुनः ॥९॥
अस्य वीरजिनस्य ऐश्वर्यमीश्वरत्वं मया गृहान्निर्गमोऽभिसरण ६ तस्मात् प्रागेव प्रथममेव प्रत्यक्षीकृतं साक्षान्निर्णीतं ततः पुनरने 'इन्द्रभूते ! त्वमायाहि' इत्येवंभूतेन वाक्येन अस्य सर्वज्ञता सर्वज्ञत्व. मप्याविरभूत् प्रकटीबभूव, सर्वज्ञं विनाऽन्यः कोऽप्येवं वक्तुं न ९ शक्नोतीत्यर्थः । ऐश्वर्यमिति । ईश्वरस्य भाव इत्यर्थे व्यञ् | निर्गमादिति । 'अन्यारादितरर्ते' (२।३।२९) इत्यादिना 'प्राग्
योगे पञ्चमी । सर्वज्ञतेति । सर्व वस्तुजातं जानातीति सर्वज्ञस्तस्य १२ भावस्तत्ता भावे तल ॥ ९॥
किंवा स्वासिसान्निध्यात् श्रियः पुंसो न दुर्लभाः।
सर्वज्ञता तु दुःप्रापा या परब्रह्मनिष्ठिता ॥१०॥ १५ किंवाऽथवा खर्वासिसान्निध्यात् देवसाहाय्यात् पुंसो मनुष्यस्य श्रियो लक्ष्म्यो न दुर्लभा न दुःप्रापाः, सुलभा एवेत्यर्थः । परं सा
सर्वज्ञता तु दुःप्रापा दुर्लभा । सा का इत्याह-येति । या सर्वज्ञता १८ परब्रह्मणि परमात्मनि निष्ठिता निःशेषेण स्थिता, अस्तीति शेषः ।
अयमर्थः-एतस्य किल वप्रत्रयादिका या ऋद्धिदृश्यते सा तु देवसान्निध्यादपि संभवति परंतु या परमात्मनि स्थिता सर्वज्ञता साऽस्मिन्
कथं संभवेदिति । स्वर्वासीत्यादि । खरित्यव्ययं स्वर्गार्थकम् , खः २२ खर्गे वसन्तीति खर्वासिनो देवाः, संनिधेर्भावः सान्निध्यं, सामीप्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org