________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
१३७
गोत्राभिधानमुच्चार्य संभाष्यन्ते इत्यर्थः । जनैरिति शेषः । परन्तु मे मम 'इन्द्रभूतिः' इत्येवं नामाभिधानं बहु अत्यन्तं संस्तुताः परिचिताः विरलाः केऽपि जना विजानन्ति, ततो अयमसंस्तुतोऽपरिचितो ३ जिनस्तदिन्द्र भूतीति मे नाम कथमाख्याति कथं वक्ति ? अत्र गौतमेति - इन्द्रभूतीति च पदद्वयं निर्विभक्तिकमेवोपात्तमस्ति, गवित्ययमाहेत्यादिवत्, ततो दोषशङ्का न कार्या । आहूयन्ते इति । आइ ६ पूर्वाद् हेञः कर्मणि लट् । अभिधानत इति । 'ल्यब्लोपे - ( वा० ) इति कर्मणि पञ्चमी । आख्यातीति । 'ख्या प्रकथने ' अदादिः, आङ्पूर्वादस्मात्कर्त्तरि लट् ॥ ६ ॥ ७ ॥
९
शक्तं पदमपि स्वार्थं सङ्केतग्रहणं विना । नाभिधत्ते ततः कोऽत्र सङ्केतं ग्राहयेत्तु यः ॥ ८ ॥ तु इति विशेषे, शक्तमपि अर्थप्रतिपादनशक्तियुक्तमपि पदं सङ्के - १२ तस्य ग्रहणं विना स्वार्थं खकीयाभिधेयं नाभिधत्ते न प्रतिपादयति इति नियमोsस्ति, ततो यो जनः सङ्केतं ग्राहयेत् सङ्केतग्रहणं कारयेत् सोऽत्रास्मिन् स्थाने को विद्यते, न कोऽपीत्यर्थः । इदमत्र तात्पर्यम् - १५ यथा 'गामानय' इत्यादौ गोपदं यद्यपि स्वनिष्ठार्थप्रतिपादनसमर्थमस्ति तथापि इयं सास्त्रादिमती व्यक्तिगपदवाच्येति सङ्केतो येन प्राग् न गृहीतस्तस्मै स्वार्थ बोधयितुं न क्षमं तथाऽत्रापि अयं द्विज इन्द्रभूति - १८ पदवाच्य इत्येवंभूतो यः सङ्केतस्तद्ग्रहणं विना शक्तमपि इन्द्रभूतिपदं स्वार्थं गमयितुं न समर्थम् । यदि पुनः कोऽपि सङ्केतग्रहणं कारयेत् तदा तु एतदर्थोपपत्तिः स्यात् परमत्र तु यः सङ्केतं ग्राहयति स २१ कोऽपि न दृश्यते, ततः कथमनेन ज्ञातमयमेवेन्द्रभूतिरस्तीति ? | शक्तमिति । शक्तिरस्त्यस्मिन्निति अर्श आदित्वादच् । शक्तिमदि - २३
Jain Education International For Private & Personal Use Only
www.jainelibrary.org